________________
॥ १७२ ॥
Jain Education Inte
न सर्व्वज्ञा न नीरागाः शङ्कर ब्रह्म - विष्णवः । प्राकृतेभ्यो मनुष्येभ्योऽप्यसमञ्जसवृत्तितः ॥ १॥ स्त्रीसङ्गः काममाचष्टे द्वेषं चायुधसंग्रहः । व्यामोहं चाक्षसूत्रादिरशौचं च कमण्डलुः ||२|| गौरी रुद्रस्य, सावित्री ब्रह्मणः, श्रीर्मुरद्विषः । शचीन्द्रस्य, रखे रत्नादेवी, दक्षात्मजा विधोः ||३|| तारा बृहस्पतेः स्वाहा वनेश्वतोभुवो रतिः । धूमोर्णा श्राद्धदेवस्य दारा एवं दिवौकसाम् ||४|| सर्वेषां शस्त्रसम्बन्धः सर्वेषां मोहजृम्भितम् । तदेवं देवसन्दोहो न देवपदवीं स्पृशेत् ||५|| बुद्धस्यापि न देवत्वं मोहाच्छ्रन्याभिधायिनः । प्रमाणसिद्धे शून्यत्वे शून्यवादकथा वृथा ||६|| प्रमाणस्यैव सच्चेन, न प्रमाणविवर्जिता । शून्यसिद्धिः परस्यापि न स्वपक्षस्थितिः कथम् ||७|| सर्वथा सर्वभावेषु क्षणिकत्वे प्रतिश्रुते । फलेन सह सम्बन्धः साधकस्य कथं भवेत् ||८||
स्वधको हेतुः कथं क्षणिकवादिनः । स्मृतिश्च प्रत्यभिज्ञा च व्यवहारकरी कथम् ||९|| निपत्य ददतोव्याघ्राः स्वकार्य कृमिसङ्कुलम् । देया देयविमूढस्य दया बुद्धस्य कीदृशी ॥ १० ॥ स्वजन्मकाल एवात्मजनन्युदरदारिणः । मांसोपदेशदातुश्च कथं शौद्धोदनेर्दया || ११ ॥ यो ज्ञानं प्रकृतेर्धर्मं भाषते स्म निरर्थकम् । निर्गुणो निष्क्रियो मूढः स देवः कपिलः कथम् ||१२||
१ प्रत्यभिज्ञातव्य क. ।।
For Private & Personal Use Only
100000000000000000
dooooo
5
10
॥ १७१ ॥
www.jainelibrary.org