________________
स्वोपावृत्तिविभूषितं
द्वितीयः प्रकाश: श्लोकः७ ॥१७॥
योगशास्त्रम्
॥१७॥
राग आदिर्येषां ते रागादयः, आदिशब्दाद् द्वेष-मोहपरिग्रहः, रागादीनामङ्काश्चिह्नानि, स्त्री-शस्त्रा-ऽक्षसूत्रादयश्च ते रागायङ्काश्च, तैः कलङ्किता दूषिताः । तत्र स्त्री रागचिह्नम् , शखं द्वेषचिह्नम् , अक्षमूत्रं मोहचिह्नम् । वीतरागो हि नाङ्गनासङ्गभाग् भवति । वीतद्वेषो वा कथं शस्त्रं बिभृयात् । गतमोहो वा कथं विस्मृतिचिह्नं जपमालां परिगृह्णीयात् । राग-द्वेष-मोहै। सवेदोषाः संगृहीताः, तन्मूलत्वात् सर्वदोषाणाम् । निग्रहो वधबन्धादिः, अनुग्रहो वरप्रदानादिः, तौ परौ प्रकृष्टौ येषां ते तथा। निग्रहानुग्रहावपि रागद्वेषयोश्चिने। ये एवं विधास्ते देवा न भवन्ति मुक्तये इति मुक्तिनिमित्तम् । देवत्वमात्रं तु क्रीडनादिकारिणां प्रेत-पिशाचादीनामिव न वार्यते ॥ ६ ॥ मुक्तिनिमित्तत्वाभावमेव व्यनक्ति
नाट्या-ऽट्टहास-सङ्गीताद्युपप्लवविसंस्थुलाः।
लम्भयेयुः पदं शान्तं प्रपन्नान् प्राणिनः कथम् ? ॥७॥ इह सकलसांसारिकोपप्लवरहितं शान्तं पदं मुक्ति-कैवल्यादिशब्दाभिधेयमस्तीत्यत्र नास्ति विप्रतिपत्तिः। तत् तादृशं शान्तं पदं नाट्या-अट्टहास-सङ्गीतादिविसंस्थुलाः स्वयमुपहतवृत्तयः कथमाश्रितजनान् प्रापयेयुः । न ह्येरण्डतरुः कल्पतरुलीलामुद्वहति । ततश्च राग-द्वेष-मोहदोषविवर्जितो जिन एको देवो मुक्तये नेतरे दोषदूषिताः। अत्रान्तरश्लोकाः
१ कारणं खं.॥ २-३ विशंस्थुलाः शां. खं.॥
Jain Education in
For Private & Personal Use Only
Jwww.jainelibrary.org