SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ ॥१६९॥ " जस्सीलसमायारो अरिहा तित्थंकरो महावीरो । तस्सीलसमायारो होहि हु अरिहा महापउमो ।" [ ] उपास्यः सेवा-ऽअलिबन्धादिना अयमेव देवः। दुष्कृतगर्दा-सुकृतानुमोदनापूर्वकमयमेव देवो भवभयार्तिभेदी शरणमिष्यताम । अस्यैवोक्तलक्षणस्य देवस्य शासनमाज्ञा प्रतिपत्तव्यं स्वीकरणीयम् । शासनान्तराणि हि निरतिशयपुरुषप्रणेतकाणि न प्रतिपत्तियोग्यानि । चेतनाऽस्ति चेदित्यधिक्षेपः, चेतनावत एव प्रत्युपदेशस्य सफलत्वात् । अचेतन तु प्रति विफल उपदेशप्रयासः । यदाह " अरुण्यरुदितं कृतं शवशरीरमुर्तितं श्वपुच्छमवनामितं बधिरकर्णजापः कृतः । स्थले कमलरोपणं सुचिरम्परे वर्षणं तदन्धमुखमण्डनं यदबुधे जने भाषितम् ॥" [ ] ॥५॥ अदेवलक्षणमाह ये स्त्री-शस्त्रा-ऽक्षसूत्रादिरागाद्यकलङ्किताः । निग्रहा-ऽनुग्रहपरास्ते देवाः स्युन मुक्तये ॥६॥ स्त्री कामिनी, शस्त्रं शूलादि, अक्षसूत्रं जपमाला, तान्यादौ येषां नाट्या-ऽट्टहासादीनां ते स्त्री-शस्त्रा-ऽक्षसूत्रादयः, १ यच्छीलसमाचारोऽहंस्तीर्थङ्करो महावीरः। तच्छीलसमाचारो भविष्यति खलु अर्हन् महापद्मः॥ २ मण्डना शां. खं.॥ ॥१६९॥ Jain Education Inter For Private & Personal use only P ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy