SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ स्वोपन वृत्तिविभूषितं योग शास्त्रम् ॥१६८।। द्वितीयः प्रकाश: श्लोकः ५ ॥१६८॥ यथा वा"क्षिप्येत वाऽन्यः सदृशी क्रियेत वा तवांडिपीठे लुठनं सुरेशितुः । इदं यथावस्थितवस्तुदेशनं परैः कथङ्कारमपाकरिष्यते ॥" [ अयोग० १२ ] देव इति लक्ष्यपदम् । दीव्यते स्तूयते इति देवः। स च सामर्थ्यादर्हन परमेश्वरः, नान्यः ॥४॥ चतुरतिशयवतो देवस्य ध्यानोपासन-शरणगमन-शासनप्रतिपत्तीः साधिक्षेपमुपदिशति ध्यातव्योऽयमुपास्योऽयमयं शरणमिष्यताम् ।। अस्यैव प्रतिपत्तव्यं शासनं चेतनास्ति चेत् ॥५॥ अयं देवो ध्यातव्यः पिण्डस्थ-पदस्थ-रूपस्थ-रूपातीतरूपतया श्रेणिकेनेव । श्रेणिको हि वर्ण-प्रमाण-संस्थानसंहनन-चतुस्त्रिंशदतिशयादियोगिनं भगवन्तं श्रीमहावीरमनुध्यातवान् । तदनुभावाच तद्वर्ण प्रमाण-संस्थान-संहनना-ऽतिशययुक्तः पद्मनाभस्तीर्थकरो भविष्यति । यदाचक्ष्महि "तह तम्मएण मणसा वीरजिणो झाइओ तए पुचि । जह तारिसो चिय तुमं अहेसि ही जोगमाहप्पं ॥"[ ] आगमश्च१ वाच्यः खं.॥ २ तथा तन्मयेन मनसा धीरजिनो ध्यातस्त्वया पूर्वम् । यथा तादृश एव त्वमासी:, ही योगमाहात्म्यम् ।। For Private & Personal Use Only Jain Education Intel www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy