________________
||१.६७।।
Jain Education Inter
न हि विवक्षितस्यैकस्यापीष्टस्यार्थस्य ज्ञानमशेषार्थज्ञानमन्तरेण भवति । सर्वे हि भावा भावान्तरैः साधारणासाधारणरूपा इत्यशेषज्ञतामन्तरेण सालक्षण्य - वैलक्षण्याभ्यां नैकोऽपि ज्ञातो भवति । यदाहु:
"एको भावः सर्वथा येन दृष्टः सर्वे भावास्तत्त्वतस्तेन दृष्टाः ।
सर्वे भावाः सर्वथा येन दृष्टा एको भावस्तत्त्वतस्तेन दृष्टः || १ || "
जितरागादिदोष इत्यनेनापायापगमातिशयमाह । तत्रेदं सर्वजनप्रतीतम्, यथा- सन्ति रागद्वेषादयः । ते च दोषाः, तैरात्मनो दूषणात् । ते च जिता: प्रतिपक्षसेवादिभिर्भगवतेति जितरागादिदोष इत्युक्तम् । सदा रागादिरहित एव कश्चित् पुरुषविशेषोऽस्तीति तु वार्तामात्रम् । अजितरागादेवास्मदादिवन्न देवत्वमिति ।
त्रैलोक्यपूजित इत्यनेन पूजातिशयमाह । कतिपयप्रतारितमुग्धबुद्धिपूजायां हि न देवत्वं स्यात् । यदा तु चलितासनैः सुरासुरैर्नानादेशभाषाव्यवहारविसंस्थुलैर्मनुष्यैः परस्परनिरुद्धवैरैः सख्यमुपागतैस्तिर्यग्भिश्च समवसरण भूमिभिपतद्भिरहमहमिकया सेवा अलिपूजा - गुणस्तोत्र - धर्मदेशनामृतरसास्वादादिभिः पूज्यते भगवान् तदा देवत्वमिति । यथास्थितार्थवादीत्यनेन वागतिशयः । यथास्थितं सद्भूतमर्थं वदतीत्येवंशीलो यथास्थितार्थवादी, यदाचक्ष्महि स्तुतौ" अपक्षपातेन परीक्षमाणा द्वयं द्वयस्याप्रतिमं प्रतीमः । यथास्थितार्थप्रथनं तवैतदस्थान निर्बन्धरसं परेषाम् ||" [ अयोग० २२ ]
१-क. व. । षज्ञानमन्तरेण मु. ॥ २ सेवनादि' मु. ॥ ३ स्तीति वार्ता शां. खं. ॥
For Private & Personal Use Only
5
10
॥१६७॥
www.jainelibrary.org