SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् द्वितीयः प्रकाश: श्लोकः४ ॥१६६॥ ॥१६६॥ मिथ्यात्वं परमो रोगो मिथ्यात्वं परमं तमः। मिथ्यात्वं परमः शत्रुमिथ्यात्वं परमं विषम् ॥१॥ जन्मन्येकत्र दुःखाय रोगो ध्वान्तं रिपुर्विषम् । अपि जन्मसहस्रेषु मिथ्यात्वमचिकित्सितम् ॥२॥ मिथ्यात्वेनालीढचित्ता नितान्तं तत्वातत्वं जानते नैव जीवाः । कि जात्यन्धाः कुत्रचिद्वस्तुजाते रम्या ऽरम्यव्यक्तिमासादयेयुः ॥३॥ देवादेव-गुर्वगुरु-धर्माधर्मेषु लक्षयितव्येषु देवलक्षणमाह सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः । यथास्थितार्थवादी च देवोऽर्हन् परमेश्वरः ॥४॥ देवस्य देवत्वे चतुरोऽतिशयानाचक्षते विचक्षणाः तद्यथा-ज्ञानातिशयः १, अपायापगमातिशयः २, पूजातिशयः ३, वागतिशयश्च ४ । तत्र सर्वज्ञ इत्यनेन सकलजीवाजीवादितत्वज्ञतया ज्ञानातिशयमाह। न तु यथाहुर्विशृङ्खलवादिनः परे" सर्व पश्यतु वा मा वा तत्वमिष्टं तु पश्यतु । कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ॥ [प्रमाणवा० १।३३] दूरं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । प्रमाणं दूरदर्शी चेदेत गृध्रानुपास्महे ॥" [प्रमाणवा० १॥३५] इति । १ चेत्तन ख. । चेदेतान् मु.॥ Jain Education Intl For Private & Personal use only Jwww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy