SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ स्वोपक्षवृत्तिविभूषितं द्वितीयः प्रकाश: श्लोकः३ ॥१६॥ योगशास्त्रम् ॥१६॥ अवतिष्ठेत नाज्ञानं जन्तौ सम्यक्त्ववासिते । प्रचारस्तमसः कीदृग् भुवने भानुभासिते ॥३॥ तिर्यग्नरकयोारे दृढा सम्यक्त्वमर्गला । देव-मानव-निर्वाणसुखद्वारैककुञ्चिका ॥४॥ भवेद्वैमानिकोऽवश्यं जन्तुः सम्यक्त्ववासितः। यदि नोद्वान्तसम्यक्त्वो बद्धायुर्वापि नो पुरा ॥५॥ अन्तर्मुहर्तमपि यः समुपास्य जन्तुः सम्यक्त्वरत्नममलं विजहाति सद्यः। बम्भ्रम्यते भवपथे सुचिरं न सोऽपि, तद् बिभ्रतश्विरतरं किमुदीरयामः ॥६॥ इति ॥२॥ विपक्षनाने सति विवक्षितं सुज्ञानं भवतीति सम्यक्त्वविपक्षं मिथ्यात्वमाह अदेवे देवबुद्धिर्या गुरुधीरगुरौ च या । अधर्मे धर्मबुद्धिश्च मिथ्यात्वं तद्विपर्ययात् ॥३॥ अदेवोऽगुरुरधर्मश्च वक्ष्यमाणलक्षणः, तत्र देवत्व-गुरुत्व-धर्मत्वप्रतिपत्तिलक्षणं मिथ्यात्वम् , तस्य लक्षणं तद्विपर्ययादिति, तस्य सम्यक्त्वस्य विपर्ययः, तस्माद्धेतोः, सम्यक्त्वविपर्ययरूपत्वादित्यर्थः । तथा च इदमपि संगृहीतं देवेऽदेवत्वस्य गुरावगुरुत्वस्य धर्मेऽधर्मत्वस्य प्रतिपत्तिरिति । मिथ्यात्वं च पञ्चधा-आभिग्रहिकमनाभिग्रहिकमाभिनिवेशिकं सांशयिकमनाभोगिकं च । तत्राभिग्रहिकं पाखण्डिनां स्वस्वशास्त्रनियन्त्रितविवेकालोकानां परपक्षप्रतिक्षेपदक्षाणां भवति ॥१॥ Jain Education Inter For Private & Personal Use Only T ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy