SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ ॥१६३|| " उवसामगसेढिगयस्स होइ उअसामि तु सम्मतं । जो वा अकयतिपुंजो अखविअमिच्छो लहइ सम्मं ॥" [वृ० भा० ११८ ] क्षयो मिथ्यात्वमोहनीयस्यानन्तानुबन्धिनां च उदितानां देशतो निर्मूलनाशः, अनुदितानां चोपशमः, क्षयेण युक्त उपशमः क्षयोपशमः, स प्रयोजनमस्य क्षायोपशमिकम् । तच्च सत्कर्मवेदनाद्वेदकमप्युच्यते । औपशमिकं तु सत्कर्मवेदनारहितमित्यौपशमिक-क्षायोपशमिकयोर्भेदः। यदाह "वेएइ संतकम्म खओक्समिएस नाणभावं सो। उवसंतकसाओ उण वेएड न संतकम्मं पि॥" [वि. भा० १२९० ] एतस्य च स्थितिः पट्पष्टिः सागरोपमाणि साधिकानि । यदाह "दो वारे विजयाइस गयस्स तिण्णऽन्चुए अहव ताई। ___ अइरेगं नरभवियं नाणाजीवाण सव्वद्धं ॥" [वि. भा० ४३४ ] क्षयो मिथ्यात्वमोहनीयस्यानन्तानुबन्धिनां च निर्मूलनाशः। क्षयः प्रयोजनमस्य क्षायिकम् , तच्च साद्यनन्तम् । अत्र चान्तरश्लोकाःमूलं बोधिQमस्यैतद् द्वारं पुण्यपुरस्य च । पीठं निर्वाणहर्म्यस्य निधानं सर्वसम्पदाम् ॥१॥ गुणानामेक आधारो रत्नानामिव सागरः । पात्रं चारित्रवित्तस्य सम्यक्त्वं श्लाध्यते न कैः॥२॥ ॥१६३।। Jain Education Intel For Private & Personal Use Only |vww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy