________________
स्वोपक्ष
वृत्ति
विभूषित যৗন হামু ॥१६॥
द्वितीयः प्रकाश: श्लोकः२ ॥१६॥
या देवे देवताबुद्धिगुरौ च गुरुतामतिः ।
धर्मे च धर्मधीः शुद्धा सम्यक्त्वमिदमुच्यते ॥२॥ या देवे गुरौ धर्मे च वक्ष्यमाणलक्षणे देवत्व-गुरुत्व-धर्मत्वबुद्धिः 'अयमेव देवो गुरुर्धर्मः' इति निश्चयपूर्वा रुचिः, श्रद्धानमिति यावत् , शुद्धा अज्ञान-संशय-विपर्यासनिराकरणेन निर्मला सा सम्यक्त्वम् । यद्यपि 'रुचिर्जिनोक्ततत्वेषु' इति यति-श्रावकाणां साधारणं सम्यक्त्वलक्षणमुक्तम् तथापि गृहस्थानां देव-गुरु-धर्मेषु पूज्यत्वोपास्यत्वा-ऽनुष्ठेयत्वलक्षणोपयोगवशाद् देव-गुरु-धर्मतत्त्वप्रतिपत्तिलक्षणं सम्यक्त्वं पुनरभिहितम् । ननु तत्त्वार्थरुचिलक्षणे सम्यक्त्वे देव-गुरु-धर्माणां क्व तत्वेऽन्तर्भावः? उच्यते-देवा गुरुवश्च जीवतत्वे, धमः शुभाश्रवे संवरे चान्तर्भवति ।
सम्यक्त्वं च त्रिधा-औपशमिकं क्षायोपशमिकं क्षायिकं च । तत्रोपशमो भस्मच्छन्नाग्निवत् मिथ्यात्वमोहनीयस्यानन्तानुबन्धिनां च क्रोध-मान-माया-लोभानामनुदयावस्था । उपशमः प्रयोजनं प्रवर्तकमस्य औपशमिकम् , राच्चानादिमिथ्यादृष्टेः करणत्रयपूर्वकमान्तमाहुर्तिकं चतुर्गतिगतस्यापि जन्तोर्भवतीत्युक्तप्रायम् , यद् वा उपशमश्रेण्यारूढस्य भवति । यदाह
१ यो०१॥ १७ ॥ २ गवद शां.॥ ३ यो०व०१।१७॥ ४ स्य उपशान्तमोहगुणस्थानके भवति खं. ॥
10
Jain Education Int
For Private & Personal use only
www.jainelibrary.org