________________
द्वितीयः प्रकाशः
'गृहिधर्माय कल्पते' इत्युक्तम् , गृहिधर्मश्च श्रावकधर्मः, स च सम्यक्त्वमूलानि द्वादश व्रतानि, तान्येवाह
सम्यक्त्वमूलानि पञ्चाणुव्रतानि गुणात्रयः ।
शिक्षापदानि चत्वारि व्रतानि गृहमेधिनाम् ॥१॥ सम्यक्त्वं मूलं कारणं येषां तानि सम्यक्त्वमूलानि । अणूनि महाव्रतापेक्षया लघूनि, व्रतानि अहिंसादीनि पश्च, एतानि मूलगुणाः । गुणात्रय उत्तरगुणरूपाः, ते च गुणवतानि दिग्वतादीनि त्रीणि। शिक्षणं शिक्षा अभ्यासः. शिक्षायै पदानि स्थानानि चत्वारि सामायिकादीनि प्रतिदिवसाभ्यसनीयानि, तत एव गुणवतेभ्यो भेदः । गुणव्रतानि हि प्रायो यावजीविकानि । एवं द्वादश व्रतानि गृहमेधिनां श्रावकाणाम् ॥१॥
'सम्यक्त्वमूलानि ' इत्युक्तं तत्र सम्यक्त्वं विभजति
॥१६॥
१ यो० १।५६ ॥ ४१
Jain Education Inter
For Private & Personal use only
24ww.jainelibrary.org