________________
॥१५९॥
तथा सौम्योऽक्रूराकारः, क्रूरो हि लोकस्योद्वेगकारणम् ३२॥
तथा परोपकृतौ परोपकारे कर्मठः कर्मशूरः कर्मणि घटते, " तत्र घटते कर्मणष्ठः " [सि. ७।१।१३७] इति ठः, परोपकारपरो हि पुमान् सर्वस्य नेत्रामृताञ्जनम् ३३।। ।
तथा अन्तरङ्गश्वासावरिषड्वर्गश्च अन्तरङ्गारिषड्वर्गस्तस्य परिहारोऽनासेवनं तत्र परायणस्तत्परः । तत्राऽयुक्तितः प्रयुक्ताः काम-क्रोध-लोभ-मान-मद-हर्षाः शिष्टगृहस्थानामन्तरङ्गोऽरिषड्वर्गः । तत्र परपरिगृहीताम्वनूढासु वा स्त्रीषु दुरभिसन्धिः कामः । परस्थात्मनो वा अपायमविचार्य कोपकरणं क्रोधः। दानाहेषु स्वधनाप्रदानं निष्कारणं परधनग्रहणं च लोभः । दरभिनिवेशारोहो युक्तोक्ताग्रहणं वा मानः । कुल बलैश्वर्य-रूप-विद्यादिभिरहङ्कारकरण परप्रधर्षनिबन्धनं वा मदः। निनिमित्तं परदुःखोत्पादनेन स्वस्य द्यूत-पापर्द्धवाद्यनर्थसंश्रयेण वा मनःप्रमोदो हर्षः । एतेषां च परिहार्यत्वमपायहेतुत्वात् । यदाह
" दाण्डक्यो नाम भोजः कामाद् ब्राह्मणकन्यामभिमन्यमानः सबन्धु-राष्ट्रो विननाश करालश्च वैदेहः १ । क्रोधाजनमेजयो ब्राह्मणेषु विक्रान्तस्तालजङ्घश्च भृगुषु २। लोभादैलश्चातुर्वर्ण्यमत्याहारयमाणः सौवीरश्चाजबिन्दुः ३ । मानाद्रावणः परदारानप्रयच्छन् दुर्योधनी राज्यादशं च । मदाद् दम्भोद्भवो भूतावमानी हैहयथार्जुनः ५ । हर्षाद् बातापिरगस्त्यमभ्यासादयन् वृष्णिसङ्घश्च द्वैपायनम् ६।" [को० अ० १। ६] इति ३४।।
१ प्रघर्षणनि खं.॥ २'मभ्याहा शां. खं. मु.॥ ३ 'मत्यासादयन् इति कौटिलीयेऽर्थशास्त्रे पाठः॥
AI 10
Jain Education in
For Private & Personal Use Only
|www.jainelibrary.org