________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
प्रथमः प्रकाश: श्लोकः
॥१५८||
।।१५८॥
तथा वस्त्ववस्तुनोः कृत्या-ऽकृत्ययोः स्व-परयोविशेषमन्तरं जानाति निश्चिनोतीति विशेषज्ञः, अविशेषज्ञो हि पुरुषः पशो तिरिच्यते । अथवा विशेषमात्मन एव गुण-दोषाधिरोहलक्षणं जानातीति विशेषज्ञः । यदाह
"प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः । किं नु मे पशुभिस्तुल्यं किं नु सत्पुरुषैरिति ॥"[ ] २७ ।। __तथा कृतं परोपकृतं जानाति न निनुते कृतज्ञः, एवं हि तस्य कुशललाभो यदुपकारकारिणो बहु मन्यते, कृतघ्नस्य तु निष्कृतिरेव नास्ति । यदाह-" कृतघ्ने नास्ति निष्कृतिः" [ ] इति २८॥
तथा लोकानां विशिष्टजनानां विनयादिगुणेवल्लभः प्रियः। को हि गुणवतः प्रति प्रीतो न भवति । यस्तु न लोकवल्लभः स न केवलमात्मानं स्वस्य धर्मानुष्ठानमपि परैर्दूषयन् परेषां बोधिलाभभ्रंशहेतुर्भवति २९॥
तथा लज्जा वैयात्याभावः, सह लज्जया सलज्जः । लज्जावान् हि प्राणप्रहाणेऽपि न प्रतिज्ञातमपजहाति । यदाह
" लज्जां गुणौघजननी जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्तमानाः । तेजस्विनः सुखममूनपि सन्त्यजन्ति सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥"[ ] ३०॥
तथा सह दयया दुःखितजन्तुदुःखत्राणामिलापेण वर्तत इति सदयः । " धर्मस्य दया मूलम् " [प्रशम० १६८] इति ह्यामनन्ति । तदवश्यं दयां कुर्वीत । यदाह"प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा । आत्मौपम्येन भूतानां दयां कुर्वीत मानवः ॥" [ ] ३१॥
Jain Education Inter
For Private & Personal use only
Nisww.jainelibrary.org