________________
॥१५७||
पक्षपातस्तु गुणबहुमान-तत्प्रशंसा-साहाय्यकरणादिना अनुकूला प्रवृत्तिः। गुणपक्षपातिनो हि जीवा अबन्ध्यपुण्यबीजनिषेकेणेहामुत्र च गुणग्रामसम्पदमारोहन्ति २१।। ___तथा प्रतिषिद्धो देशोऽदेशः, प्रतिषिद्धः कालोऽकोलः, तयोरदेशाकालयोश्चर्या चरणम् , तां त्यजन् परिहरन् , अदेशकालचारी हि चौरादिभ्योऽवश्यमुपद्रवमानोति २२।।
तथा आनन् विदन् बलं शक्तिं स्वस्य परस्य वा द्रव्य-क्षेत्र-काल-भावकृतं सामर्थ्यम् । अबलमपि तथैव । बलाबलपरिज्ञाने हि सर्वः सफल आरम्भः, अन्यथा तु विपर्ययः। यदाह" स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनाम् । अयथावलमारम्भो निदानं क्षयसम्पदः॥" [ ] इति २३।।
तथा वृत्तमनाचारपरिहारः सम्यगाचारपरिपालनं च, तत्र तिष्ठन्तीति वृत्तस्थाः । ज्ञानं हेयोपादेयवस्तुविनिश्चयः, तेन वृद्धा महान्तः । वृत्तस्थाश्च ते ज्ञानवृद्धाश्च, तेषां पूजकः। पूजा च सेवा-ऽअल्यासनाऽभ्युत्थानादिलक्षणा । वृत्तस्थज्ञानवन्तो हि पूज्यमाना नियमात् कल्पतरव इव सदुपदेशादिफलैः फलन्ति २४॥
तथा पोष्या अवश्यभर्त्तव्या मातृ-पित-गृहिण्यपत्यादयः, तान् योग-क्षेमकरणेन पोषयतीति पोषकः २५॥ तथा दीर्घकालभावित्वादीर्घमर्थमनर्थं च पश्यति पर्यालोचयतीत्येवंशीलो दीर्घदर्शी २६॥ १ 'स्तु बहुमान' खं. मु.॥ २ कल्पतरुरिव खं.॥
॥१५७||
Jain Education Inter
For Private & Personal use only
T
ww.jainelibrary.org