________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
प्रथमः प्रकाश: श्लोकः
॥१५६॥
॥१५६॥
कामस्य सुकरोत्पादत्वात् । कामा-ऽर्थयोस्तु बाधायां धर्मो रक्षणीयः, धर्ममूलत्वादर्थ-कामयोः। उक्तं च
"धर्मश्चेन्नावसीदेत कपालेनापि जीवतः। आढ्योऽस्मीत्यवगन्तव्यं धर्मवित्ता हि साधवः ॥" [ ] १८॥ तथा न विद्यते सततप्रवृत्तातिविशदैकाकारानुष्ठानतया तिथ्यादिदिनविभागो यस्य सोऽतिथिः। यथोक्तम्“तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेपमभ्यागतं विदुः॥" [ ]
साधुः शिष्टाचाररतः सकललोकाविगीतः। दीनो "दीच क्षये " [ हैमधा० १२४४ ] इति वचनात् क्षीणसकलधर्मा-ऽर्थ-कामाराधनशक्तिः। तेषु प्रतिपत्तिकृत, प्रतिपत्तिरुपचारोऽन्न-पानादिरूपः। कथम् ? यथावत् , औचित्यानतिक्रमेण । यदाह
" औचित्यमेकमेकत्र गुणानां कोटिरेकतः । विषायते गुणग्राम औचित्यपरिवर्जितः ॥"[ ] १९ ॥
तथा अनभिनिविष्टोऽभिनिवेशरहितः। अभिनिवेशश्च नीतिपथमनागतस्यापि पराभिभवपरिणामेन कार्यस्यारम्भः। स च नीचानां भवति । यदाह
"दर्पः श्रमयति नीचानिष्फलनयविगुणदुष्करारम्भैः । स्रोतोविलोमतरणव्यसनिमिरायस्यते मत्स्यैः ॥"[ ] अनभिनिविष्टन्वं च कादाचित्कं शाठ्यानीचानामपि सम्भवत्यत आह-सदेति २०॥ तथा गुणेषु सौजन्यौदार्य दाक्षिण्य-स्थैर्य-प्रियपूर्वप्रथमाभिभाषणादिषु स्व-परयोरुपकारकारणेष्वात्मधर्मेषु पक्षपाती। १ जीवित: शां.॥ २ तिथ्यादिविभागो खं. ।।
Jain Education Inter
For Private & Personal Use Only
4
ww.jainelibrary.org