SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ तत्र धर्मा ऽर्थयोरुपघातेन तादात्विकविषयसुखलुब्धो वनगज इव को नाम न भवत्यास्पदमापदाम् । न च तस्य धनं धर्मः शरीरं वा यस्य कामेऽत्यन्तासक्तिः। धर्म-कामातिक्रमाद्धनमुपार्जितं परेऽनुभवन्ति, स्वयं तु परं पापस्य भाजनम् , सिंह इव सिन्धुरवधात् । अर्थ-कामातिक्रमेण च धर्मसेवा यतीनामेव धर्मो न गृहस्थानाम् । न च धर्मवाधयाऽर्थ-कामौ सेवेत । बीजभोजिनः कुटुम्बिन इव नास्त्यधार्मिकस्यायत्यां किमपि कल्याणम् । स खलु सुखी योऽमुत्रसुखाविरोधेन इहलोकसुखमनुभवति । एवमर्थबाधया धर्म-कामौ सेवमानस्य ऋणाधिकत्वम् । कामबाधया धर्मा-ऽर्थी सेवमानस्य गार्हस्थ्याभावः स्यात् । एवं च तादात्विक-मूलहर-कदर्येषु धर्मा-ऽर्थ-कामानामन्योन्यबाधा सुलभैव। तथाहि-यः किमप्यसश्चित्योत्पन्नमर्थमपव्येति स तादात्विकः । यः पितृ-पैतामहमर्थमन्यायेन भक्षयति स मूलहरः । यो मृत्या-ऽऽत्मपीडाभ्यामर्थ सञ्चिनोति, न तु क्वचिदपि व्ययते, स कदर्यः । तत्र तादात्विक-मूलहरयोस्र्थभ्रंशेन धर्म-कामयोविनाशान्नास्ति कल्याणम् । कदर्यस्य त्वर्थसंग्रहो राज-दायाद-तस्कराणां निधिर्न तु धर्मकामयोहतुरिति । ____ अनेन च त्रिवर्गबाधा गृहस्थस्य कर्तुमनुचितेति प्रतिपादितम् । यदा तु दैववशाद् बाधा सम्भवति, तदोत्तरोत्तरबाधायां पूर्वस्य पूर्वस्य बाधा रक्षणीया । तथाहि-कामवाधायां धर्माऽर्थयोर्बाधा रक्षणीया, तयोः सतोः १ परोऽनुभवति खं.॥ २'प्यसंनित्योत्पन्न शां. ॥ प्यसंचिन्त्योत्पन्न मु.। धर्मसंग्रहवृत्तावपि [पृ० १०] 'असंचित्य' इत्येव पाठः ॥ ॥१५५॥ Jain Education Intel For Private & Personal Use Only |www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy