________________
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम् ११५४॥
प्रथमः प्रकाशः श्लोकः
॥१५४॥
" मल यातयोगिन्धो विड्भेदो गात्रगौरवमरुच्यम् । अविशुद्धश्चोद्गारः पडजीर्णव्यक्तिलिङ्गानि ॥" [ ]१६॥ ___ तथा काले बुभुक्षासमये भोक्ता अन्नाद्युपजीवकः । भोक्तेति साधौ तृन् , तेन लौल्यपरिहारेण यथाग्निबलं मितं भुञ्जीत । अतिरिक्तभोजनं हि वमन-विरेचन-मरणादिना न साधु भवति, यो हि मितं भुङ्क्ते स बहु भुङ्क्ते । अक्षुधितेन ह्यमृतमपि भुक्तं भवति विषम् । तथा क्षुकालातिक्रमादन्नद्वेषो देहसादश्च भवति, विध्यातेऽग्नौ कि नामेन्धनं कुर्यादिति ।
"पाना-ऽऽहारादयो यस्य विरुद्धाः प्रकृतेरपि । सुखित्वायावकल्पन्ते तत् सात्म्यमिति गीयते ॥"[ ] एवंलक्षणात् सात्म्यात् । आजन्म सात्म्येन भुक्तं विषमपि पथ्यं भवति । परमसात्म्यमपि पथ्यं सेवेत, न पुनः सात्म्यप्राप्तमप्यपथ्यम् । सर्व बलवतः पथ्यमिति मत्वा न कालकूटं खादेत् । सुशिक्षितोऽपि विषतन्त्रज्ञो नियत एव कदाचिद्विषात् १७॥ ___तथा त्रिवर्गों धर्मार्थकामाः । तत्र यतोऽभ्युदय-निःश्रेयससिद्धिः स धर्मः। यतः सर्वप्रयोजनसिद्धिः सोऽर्थः । यत आभिमानिकरसानुविद्धा सर्वेन्द्रियप्रीतिः स कामः। ततोऽन्योन्यस्य परस्परं योऽप्रतिबन्धोऽनुपघातस्तेन त्रिवर्गमपि, न त्वेकैकम् , साधयन् । यदाह___ “यस्य त्रिवर्गशून्यानि दिनान्यायान्ति यान्ति च ! स लोहकारभनव श्वसम्मपि न जीवति ॥"[ ] १ व्यक्त' मु.॥ २ यस्याविरुद्धा:-मु.॥
10
Jain Education Inter
For Private & Personal Use Only
ww.jainelibrary.org