SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ स्वोपनवृत्तिविभूषित योगशाबम ॥१५२।। प्रकाशः श्लोकः ४७-५६ ॥१५॥ "लाभोचिअदाणे लाभोचिअभोगे लाभोचियपरिवारे लाभोचिअनिहिकरे सिया।" [पञ्चसू० २] आयोचितश्च व्ययश्चतुर्भागादितया कैश्चिदुच्यते। यदाह"पादमायान्निधिं कुर्यात् पादं वित्ताय खट्टयेत । धर्मोपभोगयोः पादं पादं भर्तव्यपोषणे॥" केचित्त्वाः" आयादर्द्ध नियुञ्जीत धर्म समधिकं ततः। शेषेण शेष कुर्वीत यत्नतस्तुच्छमैहिकम ॥"[ ] आयानुचितो हि व्ययो रोग इव शरीरं कृशीकृत्य विभवसारमखिलव्यवहारासमर्थ पुरुष कुर्वीत । उक्तं च" आय-व्ययमनालोच्य यस्तु वैश्रवणायते । अचिरेणैव कालेन सोऽत्र वै श्रवणायते ॥" [ ] १२॥ तथा वेषो वस्त्रालङ्करणादिभोगः। वित्तं विभवः, उपलक्षणाद् वयो-ऽवस्था-देश काल-जात्यादिग्रहः । तदनुसारेण तदानुरूप्येण कुर्वनिति सम्बध्यते । विभवाद्यननुसारेण वेपं कुर्वतो जनोपहसनीयता-तुच्छत्वा-ऽन्यायसम्भावनादयो दोषाः । अथवा व्ययमायोचितं कुर्वन्नेव वेषं वित्तानुसारेण कुर्वन्नेवेत्यपरोऽर्थः । यो हि सत्यप्याये कार्पण्याद् व्ययं न करोति सत्यपि वित्ते कुचेलत्वादिधर्मा भवति स लोकगर्हितो धर्मेऽप्यनधिकारीति १३।। तथा अष्टमिर्धीगुणयुक्तः। धियो बुद्धेर्गुणाः शुश्रूषादयः । ते त्वमी१ वै श्रमणायते मु.। धर्मबिन्दु[१।११]टीकायामपि वै श्रवणायते' इति पाठः । धर्मसङ्ग्रहवृत्तौ [ पृ० ७] तु " यस्तु वैश्रमणायते । अचिरेणैव कालेन सोऽत्र वै श्रमणायते ।" इति पाठः ॥ Jain Education Intern For Private & Personal Use Only R w.janeibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy