________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
प्रथमः प्रकाशः श्लोकः ४७-५६ ॥१५॥
१५०॥
परिपावतो निरावरणतया चौरादयोऽभिभवेयुः । अतिगुप्ते च सर्वतो गृहान्तरैर्निरुद्धत्वान्न स्वशोभा लभते, प्रदीपनकाग्रुपद्रवेषु च दुःखनिर्गम-प्रवेशं गृहं भवति। पुनः कथंभूते स्थाने ? सुप्रातिवेश्मिके शोभनाः शीलादिसम्पन्नाः प्रातिवेश्मिका यत्र । कुशीलप्रातिवेश्मिकत्वे हि तदालापश्रवण-तश्चेष्टादर्शनादिवशात् स्वतः सगुणस्यापि गुणहानिः स्यात् । दुष्प्रातिवेश्मिकास्त्वेते शास्त्रप्रतिषिद्धाः
"खरिया तिरिक्वजोणी-तालायर-समण-माहण-सुसाणा।
वग्गुरिअ-वाह-गुम्मिश्र-हरिएस-पुलिंद-मच्छंधा ॥" [ ओघनि० ७६७ ] ७॥ तथा कृतः सङ्गो येन स कृतसङ्गः सन् शोभन आचार इहपरलोकहिता प्रवृत्तिर्येषां ते सदाचारास्तैः, न तु कितव-धूर्त विट-भट्ट-भण्ड-नटादिभिः, तत्सङ्गे हि सदपि शीलं विलीयेत । यदाह
"यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि । अथासज्जनगोष्ठीषु पतिष्यसि पतिष्यसि ॥"
" सङ्गः सर्वात्मना त्याज्यः स चेत् त्यक्तुं न शक्यते । स सद्भिः सह कर्तव्यः सन्तः सङ्गस्य भेषजम् ।।" [ ] इति च ८॥
"खरिय त्ति यक्षरिका यत्रास्ते तदनायतनम् । तथा तिर्यगयोनयश्च यत्र तदप्यनायतनम् । तालायरा चारणाः, ते यत्र तदनायतनम् । श्रमणा: शाक्यादयः ते यत्र तदनायतनम् । तथा ब्राह्मणा यत्र तदनायतनम् । तथा वागुरिका व्याधा:, गुल्मिका गोत्तिपाला हरिपसा पुलिंदा मत्स्यबन्धाश्च यत्र तदनायतनमिति । पतेषु चानायतनेषु क्षणमपि न गन्तव्यम् । "-ओघनि० वृ०॥ २ इहलोकहिता-खं. ॥
For Private & Personal Use Only
Jain Education Inter
Mov.jainelibrary.org