SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ॥१४॥ प्रसिद्धः तथाविधापरशिष्टसम्मततया दूरं रूढिमागतः, देशाचागे भोजना-ऽऽच्छादनादिचित्रक्रियात्मकः सकलमण्डलव्यवहारः, तं सम्यगाचरन् , तदाचारातिलङ्घने हि तद्देशवासिजनतया विरोधसम्भावनादकल्याणलाभः स्यात् ५॥ ___अवर्णोऽश्लाघा, तं वदतीत्येवंशीलोऽवर्णवादी न क्वापि जघन्योत्तममध्यमभेदेषु जन्तुषु । परावर्णवादो हि बहुदोषः । यदाह "परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् ॥" [प्रशम० १००] तदेवं सकलजनगोचरोऽप्यवर्णवादो न श्रेयान् । किं पुना राजा-अमात्य-पुरोहितादिषु बहुजनमान्येषु । राजाद्यवर्णवादाद्धि वित्त-प्राणनाशनादिरपि दोषः स्यात् ६॥ तथा अनेकं बहु यन्निर्गमद्वारम् उपलक्षणत्वात्तदेव च प्रवेशद्वारं तेन विवज्जितं निकेतनं यस्य स तथा । बहुषु हि निर्गम-प्रवेशद्वारेष्वनुपलक्ष्यमाणनिर्गम-प्रवेशानां दुष्टलोकानामापाते स्त्री-द्रविणादिविप्लवः स्यात् । अत्र चानेकद्वारतायाः प्रतिषेधेन विधिराक्षिप्यते । ततः प्रतिनियतद्वारसुरक्षितगृहो गृहस्थः स्यादिति लभ्यते। तथाविधमपि निकेतनं स्थान एवं निवेशयितुं युक्तं नास्थाने । स्थानं तु शल्यादिदोषरहितं बहला-प्रवाल-कुशस्तम्ब-प्रशस्तवर्ण-गन्धमृत्तिकासुस्वादुजलोद्गम निधानादिमच्च । स्थानगुण-दोषपरिज्ञानं च शकुन-स्वमोपश्रुतिप्रभृतिनिमित्तादिवलेन । स्थानमेव विशिनष्टि-अतिव्यक्तमतिप्रकटमतिगुप्तमतिप्रच्छन्नम् , तनिषेधादनतिव्यक्तगुप्तम् , तत्र अतिव्यक्ते ह्यसन्निहितगृहान्तरतया द्वारं उपलक्षणत्वादेव च-शां. । 'द्वारं तदेव च-ख ॥ ॥१४९॥ Jain Education Intem For Private & Personal Use Only ainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy