________________
स्वोपज्ञ
वृत्ति
प्रथमः प्रकाश: श्लोकः
विभूषितं योगशास्त्रम्
॥१४८॥
॥१८॥
स्तुल्याः समकुल-शीला इत्यर्थः । गोत्रं नाम तथाविधैकपुरुषप्रभवो वंशः, तत्र जाता गोत्रजाः, तेभ्योऽन्येऽन्यगोत्रजाः, तैः सार्ध कृतोद्वाहो विहितविवाहः। अग्निदेवादिसाक्षिकं पाणिग्रहणं विवाहः । स च लोकेऽष्टविधः । तत्रालङ्कृत्य कन्यादानं ब्राह्मो विवाहः १ । विभवविनियोगेन कन्यादानं प्राजापत्यः २ । गोमिथुनदानपूर्वकमार्षः ३। यत्र यज्ञार्थमृत्विजः कन्याप्रदानमेव दक्षिणा स दैवः ४ । एते धा विवाहाश्चत्वारः । मातुः पितुर्वन्धूनां चाप्रामाण्यात् परस्परानुरागेण मिथः समवाया गान्धर्वः ५। पणबन्धेन कन्याप्रदानमासुरः ६। प्रसह्य कन्याग्रहणाद् राक्षसः ७। सुप्त-प्रमत्तकन्याग्रहणात् पैशाचः ८ । एते चत्वारोऽप्यधाः । यदि वधू-वरयोः परस्परं रुचिरस्ति तदा अधा अपि धाः । शुद्धकलत्रलाभफलो विवाहः। तत्फलं च वधूरक्षणमाचरतः सुजातसुतसन्ततिरनुपहता चित्तनिवृतिगृहकृत्यसुविहितत्वमाभिजात्याचारविशुद्धत्वं देवा-ऽतिथि-बान्धवसत्कारानवद्यत्वं चेति। वधूरक्षणोपायास्त्वेते -गृहकर्मविनियोगः परिमितोऽर्थसंयोगोऽस्वातन्त्र्यं सदा च मातृतुल्यस्त्रीलोकावरोधनमिति ३॥
पापानि दृष्टा-ऽदृष्टापायकारणानि कर्माणि, तेभ्यो भीरुः । तत्र दृष्टापायकारणानि चौर्य-पारदारिकत्व-बूतरमणादीनि इहलोकेऽपि सकललोकप्रसिद्धविडम्बनास्थानानि । अदृष्टापायकारणानि मद्य-मांससेवनादीनि शास्त्रनिरूपितनरकादियातनाफलानि ४॥
१ बिघाहः । अशुद्धभार्यादियोगेन नरक एव । तत्फलं वधूरक्षण मु.। तुलना-धर्मबिन्दुटीका १॥ १२ ॥ २ 'निर्वृत्ति शां.। 'निवृत्ति मु.॥ ३'कर' शां.॥ ४ करशां . खं ॥ ५ करखं.॥
Jain Education Inter
For Private & Personal use only
jainelibrary.org