SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ॥१७॥ इहलोके हि लोकविरुद्धकारिणो वध-बन्धादयो दोषाः, परलोके नरकादिगमनादयः। यद्यपि कस्यचित् पापानुवन्धिपुण्यकर्मवशादहलौकिकी विपन्न दृश्यते तथाप्यायत्यामवश्यम्भाविन्येव । यदाह" पापेनवार्थगगान्धः फलमामोति यत् क्वचित् । बडिशामिषवत् तत् तमविनाश्य न जीर्यति ॥" [ ] न्याय एवं च परमार्थतोऽर्थोपार्जनोपायोपनिषत् । " निपानमिव मण्डकाः सरः पूर्णमिवाण्डजाः। शुभकर्माणमायान्ति विवशाः सर्वसम्पदः॥" [ ] विभववत्वं च गार्हस्थ्ये प्रधान कारणमित्यादौ न्यायसम्पविभव इत्युक्तम् ॥ तथा शिष्टाचारप्रशंसकः । शिष्यन्ते स्म शिष्टा वृत्तस्थ-ज्ञानवृद्धसेवोपलन्धविशुद्धशिक्षाः पुरुषविशेषाः, तेषामाचारधरितम् । यथा “लोकापवादमीरुत्वं दीनाभ्युद्धरणादरः । कृतज्ञता सुदाक्षिण्यं सदाचारः प्रकीर्तितः॥" [ योगवि० १२६] इत्यादि । तस्य प्रशंसकः । यथा " विपाचैः स्थेयं पदमनुविधेयं च महतां प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् । असन्तो नाम्याः सुहृदपि न याच्यस्तनुधनः सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥" [ ] २॥ तथा कुलं पितृ-पितामहादिपूर्वपुरुषवंशः, शीलं मय-मांस-निशाभोजनादिपरिहाररूपः समाचारः, ताभ्यां समा१ एव परमा' मु.। ॥१४७॥ Jain Education nal For Private & Personal Use Only www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy