________________
॥१३॥
सङ्कोचसमये प्रमार्जितसन्देशकः उद्वर्तनकाले च मुखवत्रिकाप्रमृष्टकायो नात्यन्ततीव्रनिद्रः शयीत । प्रमाणयुक्ता तु वसतिहस्तत्रयप्रमिते भृप्रदेशे प्रत्येकं सभाजनानां साधूनां यत्रावस्थानं सकलावकाशपूग्णं च स्यात् । आसनमुपवेशनं तद्यत्र प्रदेशे चिकीर्षितं तं चक्षषा निरीक्ष्य प्रमृज्य च रजोडणेन बहिनिषद्यामास्तीर्योपविशेत , उपविष्टोऽप्याकुश्चन-प्रसारणादि तथैव कुर्वीत, वर्षादिषु च वृषीपीठादिषक्तयैव सामाचार्योपविशेत् । निक्षेपा-ऽऽदाने च दण्डाद्युपकरणविषये, ते अपि प्रत्यवेक्ष्य प्रमृज्य च विधेये । चक्रमणं गमनम् , तदप्यावश्यकप्रयोजनवतः साधोः पुरस्तायुगमात्रप्रदेशसन्निवेशितदृष्टेरप्रमत्तस्य स-स्थावरभूतानि संरक्षतोऽत्वस्या पदन्यासमाचरतः प्रशस्तम् । स्थ लक्षणमवष्टम्भादि च प्रत्यवेक्षित-प्रमार्जितप्रदेशविषयम् । एतेषु चेष्टानियमः स्वच्छन्दचेष्टापरिहारो यः सा अपरा द्वितीया कायगुप्तिरिति ॥४४॥
एतासामागमप्रसिद्ध मातृत्वमुपदर्शयति
एताश्चारित्रगात्रस्य जननात् परिपालनात् ।
संशोधनाच्च साधूनां मातरोऽष्टौ प्रकीर्तिताः ॥४५॥ एताः समिति-गुप्तयः शास्त्रेऽष्टौ मातर इति प्रसिद्धाः। मातृत्वे हेतूनाह-साधूनां सम्बन्धि चारित्रमेव गात्रमङ्गं तस्य जननादभूतस्य प्रादुर्भावनात् , जनितस्य च चारित्रगात्रस्य परिपालनात् सर्वोपद्रवनिवारणेन पोषणेन च वृद्धिनयनात्, चारित्रगात्रस्यैवातिचारमलिनस्य सतः संशोधनान्निर्मलीकरणादिति ॥४५॥
॥१४३।।
Jain Education
Anal
For Private & Personal Use Only
X
ww.jainelibrary.org