________________
स्वोपज्ञ
वृत्ति
विभूषितं
योगशास्त्रम्
॥१४२॥
Jain Education Inter
उपसर्गप्रसङ्गेऽपि कायोत्सर्गजुषो मुनेः । स्थिरीभावः शरीरस्य काय गुप्तिर्निगद्यते ||४३||
उपसर्गादेव मानुष - तिर्यक्कृता उपद्रवाः उपलक्षणत्वात् क्षुत्पिपासादयः परीषहा अपि गृह्यन्ते तेषां प्रसङ्गः सन्निपातः, अपिशब्दा तदभावेऽपि मुनेः साधोः, कायः शरीरम्, तस्योत्सर्गस्यागस्तत्र निरपेक्षतालक्षणः, तं जुषते, तस्य कायोत्सर्गजुषो यः स्थिरीभावो निश्चलता योगनिरोधं कुर्वतः सर्वथा शरीरचेष्टापरिहारो वा यः सा कायगुप्तिः ||४३|| द्वितीयामाह -
शयना-ऽऽसन-निक्षेपाऽऽदान- चङ्क्रमणेषु यः ।
स्थाने च चेष्टानियमः काय गुप्तिस्तु साऽपरा ||४४||
शयनमागमोक्तो निद्राकालः, स च रात्रावेव न दिवा, अन्यत्र ग्लाना - ऽध्वश्रान्त वृद्धादे: । तत्रापि प्रथमयतिक्रान्ते गुरूनापृच्छथ प्रमाणयुक्तायां वसतौ संवीक्ष्य प्रमृज्य च भूमि संहत्यास्तीर्य च संस्तरणपट्टकद्वय मूर्ध्वमध कार्य सपादं मुखवस्त्रिका - रजोहरणाभ्यां प्रमृज्यानुज्ञापितसंस्तार कावस्थानः पठितपञ्चनमस्कार-सामायिकसूत्रः कृतवामबाहूपधान आकुञ्चितजानुकः कुक्कुटीवद् वियति प्रसारितजङ्घो वा प्रमार्जितक्षोणीतलन्यस्तचरणो वा भूयः
१ स्थानेषु चेष्टा मु. धर्मसं० ३ । ४७ ॥
२ स्तरका शां. ॥
For Private & Personal Use Only
प्रथमः प्रकाश:
श्लोक ४४
॥१४२॥
5
10
w.jainelibrary.org