SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष विभूषितं योगशास्त्रम् ॥१४॥ प्रथमः प्रकाशः श्लोकः ४७ ॥१४॥ चारित्रं व्याख्यायोपसंहरति सर्वात्मना यतीन्द्राणामेतच्चारित्रमीरितम् । यतिधर्मानुरक्तानां देशतः स्यादगारिणाम् ॥४६॥ द्विधा चारित्रं सर्व-देशभेदात् । सर्वात्मना चास्त्रिं सर्वसावद्ययोगविरतिलक्षणम् । यतीन्द्राणामनगारिश्रेष्ठानामेतद् मूलगुणोत्तरगुणस्वरूपमीरितम् , धातूनामनेकार्थत्वात् प्रतिपादितम् । देशचारित्रं तु केषामित्याह-अगारिणां गृहस्थानां देशत एकदेशविरतिलक्षणम् । किं विशिष्टानामगारिणाम् ? यतिधर्मानुरक्तानाम् , यतिधर्मे सर्व विरतिचारित्ररूपेऽनुरक्तानां संहननादिदोषादकुर्वतामपि प्रीतिमताम् । यदाह-"सर्वविरतिलालसः खलु देशविरतिपरिणामः" [ ]। यतिधर्मानुरागरहितानां तु गृहस्थानां देशविरतिरपि न सम्यगिति ॥४६।। देशतः स्यादगारिणामित्युक्तम् । तत्र यादृशो गृहस्थो धर्माधिकारी तादृशमुपदर्शयितुं तथाहीत्यनेन प्रस्तावनामाह । तथाहोत्युपदर्शने निपातसमुदायः । न्यायसम्पन्नविभवः शिष्टाचारप्रशंसकः । कुल-शीलसमैः सार्द्ध, कृतोद्दाहोऽन्यगोत्रजैः ॥४७॥ १ तुलना-धर्मबि० १ । ३-५६ । धर्मसं० पृ० ३-११॥ Jain Education Inter For Private & Personal Use Only v.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy