________________
स्वोपज्ञ
वृत्ति
प्रथमः प्रकाशः श्लोक:४१ ॥१०॥
विभूषितं योगशाखम्
॥१४॥
उत्सर्गसमितिमाह
कफ-मूत्र-मलप्रायं निर्जन्तुजगतीतले ।
यत्नाद्यदुत्सृजेत् साधुः सोत्सर्गसमितिर्भवेत् ॥४०॥ ___ कफः श्लेष्मा मुख-नासिकसञ्चारी, मूत्रं प्रश्रवणम् , मलो विष्टा, प्रायग्रहणादन्यदपि परिष्ठापनायोग्य वख-पात्रभक्त पानादि गृह्यते । निर्जन्तुस्रस्थावरजन्तुरहिता स्वयं च निर्जन्तुर्या जगती तस्यास्तलं स्थण्डिलमित्यर्थः । तत्र यत्नादुपयोगपूर्वकं यदुत्सृजेत् साधुः सोत्सर्गसमितिः ॥४०॥ अथ गुप्तीनामवसरः, तत्र मनोगुप्तिमाह
विमुक्तकल्पनाजालं समत्वे सुप्रतिष्ठितम् ।
आत्मारामं मनस्तज्ज्ञैर्मनोगुप्तिरुदाहृता ॥४१॥ इह मनोगुप्तिस्त्रिधा–आर्त-रौद्रध्यानानुबन्धिकल्पनाजालवियोगः प्रथमा। शास्त्रानुसारिणी परलोकसाधिका धर्मध्यानानुबन्धिनी माध्यस्थ्यपरिणतिद्वितीया । कुशला-कुशलमनोवृत्तिनिरोधेन योगनिरोधावस्थाभाविन्यात्मारामता तृतीया । ता एतास्तिस्रोऽपि विशेषणत्रयेणाह-विमुक्तकल्पनाजालमिति, समत्वे सुप्रतिष्ठितमिति, आत्माराममिति च । एवं विधं मनो मनोगुप्तिः ॥४१॥
१'नासिका मु.॥
Jain Education Inter!
For Private & Personal use only
jainelibrary.org