________________
॥१३॥
" उत्पादनोद्गमपण-धूमा-ऽङ्गारप्रमाण-कारणतः। संयोजनाच्च पिण्डं शोधयतामेषणासमितिः॥"[ ]इति । ३८।। आदाननिक्षेपसमितिमाह
आसनादीनि संवीक्ष्य प्रतिलिख्य च यत्नतः ।
गृह्णीयान्निक्षिपेढा यत् साऽऽदानसमितिः स्मृता ॥३९॥ आसनं विष्टरः, आदिशब्दाद् वस्त्र-पात्र-फलक-दण्डादेः परिग्रहः । तान्यासनादीनि संवीक्ष्य चक्षुषा, प्रतिलिख्य रजोहरणादिना, यत्नत इत्युपयोगपूर्वकम् , अन्यथा सम्यक्प्रतिलेखना न स्यात् । यदाह" पडिलेहणं कुणतो मिहो कहं कुणइ जणवयकहं वा। देह व पञ्चक्खाणं वाएइ सयं पडिच्छइ वा ॥१॥
पुढवी-आउकाए-तेऊ-बाऊ-वणस्सइ-तसाणं । पडिलेहणापमत्तो छण्हं पि विराहगो भणिो ॥२॥"[ओघनि० २७३-४] _ यद् गृह्णीयादाददीत निक्षिपेत् स्थापयेत् संवीक्षित-प्रतिलिखितभूमौ सा आदाननिक्षेपसमितिः । भीमो भीमसेन इति न्यायादादानसमितिः ॥३९॥ १द्गमैषणा शां. मु.। २"प्रतिलेखनां कुर्वन् मिथ: कथां करोति जनपदकथां वा । ददाति वा प्रत्याख्यानं वासयति स्वयं प्रतीच्छति वा॥
पृथिव्यपकाय-तेजो-वायु-वनस्पति-प्रसानाम् । प्रतिलेखनाप्रमत्तः षण्णामपि विराधको भणित:॥"-छाया। ३ न्यायाञ्चादान खं.।
॥१३९॥
*
Jain Education
For Private & Personal Use Only
www.jainelibrary.org
4