SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् प्रथमः प्रकाशः श्लोकः३८ ॥१३८ ।।१३८| मेषणा यथागममन्नादेरन्वेषणम् । अत्र " इपोऽनिच्छायाम् " [ सि. ५। ३ । ११२ ] इति स्त्रियामनः । तस्यां च समितिरेपणासमितिः । इयं गवेषणारूपा एषणा। ग्रासैषणाप्यनयोपलक्ष्यते । तस्यां च पञ्च दोषाः, तद्यथा-संयोजना १ प्रमाणातिरिक्तता २ अङ्गारो ३ धूमः ४ कारणाभावश्च ५। ___तत्र रसलोभाद् द्रव्यस्य मण्डकादेव्यान्तरेण खण्ड-घृतादिना वसतेबहिरन्तर्वा योजनं संयोजना ॥१॥ धृति-बल-संयमयोगा यावता न सीदन्ति तदाहारप्रमाणम् । अधिकाहारस्तु वमनाय मृत्यवे व्याधये चेति तं परिहरेदिति प्रमाणातिरिक्तता दोषः ॥२॥ स्वाद्वन्नं तद्दातारं वा प्रशंसन् यद् भुङ्क्ते स रागाग्निना चरित्रेन्धनस्याङ्गारीकरणादगारो दोषः ॥३॥ निन्दन पुनश्चारित्रेन्धनं दहन् धूमकरणाद् धूमो दोषः ॥४॥ क्षुद्वेदनाया असहनम् , क्षामस्य च वैयावृत्याकरणम् , ईर्यासमितेरविशुद्धिः, प्रेक्षोपेक्षादेः संयमस्य चापालनम् , क्षुदातुरस्य प्रबलाग्न्युदयात् प्राणप्रहाणशङ्का, आर्त-रौद्रपरिहारेण धर्मध्यानस्थिरीकरणं चेति भोजनकारणानि । तदभावे भुञानस्य कारणाभावो दोषः ॥५॥ यदाह१ योजना -खं। २ 'वृत्त्या शां. मु.। Jain Education Intem For Private & Personal Use Only ainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy