SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ॥१३७॥ 5 दानभाजनस्थमयोग्यं सचित्तेषु पृथिव्यादिषु निक्षिप्य तेन भाजनेन ददतः संहृतम् ॥५॥ बाल-वृद्ध-पण्डक-वेपमान-ज्वरिता-ऽन्ध-मत्तोन्मत्त-च्छिन्नकरचरण-निगडित-पादुकारूढ-कण्डक-प्रेषक-भर्जक-कर्त्तकलोठक-चीखक-पिञ्जक-दलक-व्यालोडक-भोजक-पटकायविराधका दानत्वेन प्रतिषिद्धा या च स्त्री वेलामासवती गृहीतवाला बालवत्सा वा एभ्यो अन्नादि ग्रहीतुं साधोने कल्पते ॥६॥ देयद्रव्यं खण्डादि सचित्तेन धान्यकणादिना मिश्रं ददत उन्मिश्रम् ॥७॥ देयद्रव्यं मिश्रमचित्तत्वेनापरिणमदपरिणतम् ॥८॥ वसादिना संसृष्टेन हस्तेन पात्रेण वा ददतोऽन्नादि लिप्तम् ॥९॥ घृतादि च्छईयन् यद्ददाति तत् छर्दितम् , छद्यमाने घृतादौ तत्रस्थस्यागन्तुकस्य वा सर्वस्य जन्तोर्मधुबिन्द्दाहरणेन विराधनासम्भवात् ॥१०॥ तदेवमुद्गमोत्पादनैषणादोषाः संहता द्विचत्वारिंशद् भवन्ति, ते च मिक्षादोषाः, तैरदूषितमन्नमशन-खाद्य स्वाद्यभेदम् , उपलक्षणत्वात् पानं सौवीरादि, तथा रजोहरण-मुखवस्त्र-चोलपट्ट-पात्रादिः स्थविरकल्पिकयोग्यश्चतुर्दशविधो जिनकल्पिकयोग्यश्च द्वादशविध औधिक उपधिः, आर्यिकायोग्यश्च पञ्चविंशतिविधः, औपग्रहिकश्च शय्या-पीठ-फलकचर्म-दण्डादिरुपलक्षणादेव परिगृह्यते। न ह्यौधिकरजोहरणाद्यन्तरेण औपग्रहिकपीठ-फलकाद्यन्तरेण च वर्षासु हेमन्तग्रीष्मयोरपि जलकणिकाकुलायामनूपभूमौ महाव्रतसंरक्षणं कर्तुं क्षमम् । एतदोषविशुद्धमन्नादि यन्मुनिरादत्ते सा एषण ॥१३७॥ Jain Education Internal ૩૫ For Private & Personal Use Only minelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy