________________
॥१३५॥
Jain Education Int
बालस्य क्षीर-मज्जन- मण्डन- क्रीडना ऽङ्कारोपणकर्मकारिण्यः पञ्च धात्रयः । एतासां कर्म भिक्षार्थं कुर्वतो पिण्डः ||१||
मिथः सन्देशकथनं दूतीत्वम्, तत् कुर्वतो भिक्षार्थं दूतीपिण्डः || २ ||
अतीतानागत- वर्तमानकालेषु लाभालाभादिकथनं निमित्तम् । तद् भिक्षार्थं कुर्वतो निमित्त पिण्डः ||३|| जाति-कुल-गण-कर्म-शिल्पादिप्रधानेभ्य आत्मनस्तत्तद्गुणत्वारोपणं भिक्षार्थमाजीव पिण्डः || ४ ||
श्रमण-ब्राह्मण कृपणा ऽतिथि-श्वानादिभक्तानां पुरतः पिण्डार्थमात्मानं तत्तद्भक्तं दर्शयतो बनीपकपिण्डः ॥५॥ वमन विरेचन बस्तिकर्मादि कारयतो वैद्य - भैषज्यादि सूचयतो वा पिण्डार्थं चिकित्सा पिण्डः ॥६॥ विद्या- तपःप्रभावज्ञापनं राजपूजादिख्यापनं क्रोधफलदर्शनं वा भिक्षार्थं कुर्वतः क्रोधपिण्डः ||७|| लब्धि - प्रशंसोत्तानस्य परेणोत्साहितस्यावमतस्य वा गृहस्थाभिमानमुत्पादयतो मानपिण्डः ||८|| नानावेष-भाषापरिवर्त्तनं भिक्षार्थ कुर्वतो मायापिण्डः ॥९॥
अतिलोभाद् भिक्षार्थं बहु पर्यटतो लोभपिण्डः ||१०||
पूर्वसंस्तवं जननी-जनकादिद्वारेण पश्चात्संस्तवं श्वश्रूश्वशुरादिद्वारेणात्म-परवयोऽनुरूपं सम्बन्धं भिक्षार्थं घटयतः पूर्व-पश्चात्संस्तवपिण्डः ॥ ११ ॥
१ क्षपणा' मु. ॥ २ 'शाक्यादि शां. ॥ ३ 'विरेकवस्ति' शां. खं. ॥ ४ परिचयानुरूपं वयं च परवयं नाउं संबंध तयणुरुवं । मम माया परिसिया ससा य धूया व नत्ताई || ४८६ ॥ "
For Private & Personal Use Only
66
मु. । - पिण्डनि० ॥
आय
5
10
॥ १३५ ॥
ww.jainelibrary.org