________________
5
परिअट्टिए अमिहडे उभिण्णे मालोहडे इअ । अच्छिज्जे अणिसट्ठे अज्झोयरए अ सोलसमे ॥२॥
[पिण्डनि० गा० ९२-९३ ] 'आधाय' विकल्प्य, यति मनसि कृत्वा सचित्तस्याचित्तीकरणमचित्तस्य ना पाको निरुक्तादाधाकर्म ॥१॥
उद्देशः साध्वर्थ सङ्कल्पः, स प्रयोजनमस्य औद्देशिकम्, यत् पूर्वकृतमोदन-मोदकक्षोदादि तत् साधूद्देशेन दध्यादिना गुडपाकेन च संस्कुतो भवति ॥२॥
आधाकम्मिकावयवसम्मिश्रं शुद्धमपि यत्तत् पूतिकर्म शुचिद्रव्यमिवाशुचिद्रव्यसम्मिश्रम् ॥३॥ यदात्मार्थ साध्वर्थ चादित एव मिश्रं पच्यते तन्मिश्रम् ॥४॥ साधुयाचितस्य क्षीरादेः पृथक्कृत्य स्वभाजने स्थापनं स्थापना ॥५॥
कालान्तरभाविनो विवाहादेः 'इदानीं सन्निहिताः साधवः सन्ति, तेषामप्युपयोगे भवतु' इति बुद्ध्या इदानीमेव करणं समयपरिभाषया प्राभृतिका, सनिकृष्टस्य विवाहादेः कालान्तरे साधुसमागमनं सञ्चिन्त्योत्कर्षणं वा ॥६॥
यदन्धकारव्यवस्थितस्य द्रव्यस्य वहि-प्रदीप-मण्यादिना भित्यपनयनेन वा बहिनिष्कास्य द्रन्यधारणेन वा प्रकटकरणं तत् प्रादुष्करणम् ॥७॥
यत् साध्वर्थ मूल्येन क्रीयते तत् क्रीतम् ॥८॥ १ अणिसिडे-शां. मु.॥ ३४
॥१३३॥
Jain Education Inte
For Private & Personal Use Only
w
ww.jainelibrary.org