________________
॥१३॥
न य तस्स तनिमित्तो बंधो सुहुमो वि देसिओ समए ।
अणवज्जो उ पओगेण सव्वभावेण सो जम्हा ॥२॥" [ओपनि० गा० ७४८-७४९] । तथा"जिअदु व मरदु व जीवो अजदाचारस निच्छओ हिंसा । पयदस्स णत्थि बंधो हिंसामेत्तेण समिदस्स ॥" [ प्रवचन० ३।१७ ] ॥३६॥
भाषासमितिमाह
अवद्यत्यागतः सर्वजनीनं मितभाषणम् ।
प्रिया वाचंयमानां सा भाषासमितिरुच्यते ॥३७॥ अवद्यानि भाषादोषा वाक्यशुद्धथध्ययनप्रतिपादिताः धूर्त-कामुक-क्रव्याद-चौर-चार्वाकादिभाषितानि च, तेषां निर्दम्भतया त्यागः, ततः सर्वजनीनं सर्वजनेभ्यो हितम्, मितं स्वल्पमप्यतिबहुप्रयोजनसाधकं तच्च तद् भाषणं च । यदाह" महुरं निउणं थोवं कज्जावडियं अगब्वियमतुच्छं। पुब्धि मइसंकलियं भणंति जं धम्मसंजुत्तं ॥" [उपदेश० ८०]
१ उवओगेण-शां.। तु०-प्रवचनसा० वृ० पृ० १५६ ॥ २ दशवकालिकसूत्रस्य सप्तममध्ययनम् । तुलनाप्रवचनसा० वृ० पृ० १५६ ॥ ३॥ मधुरं निपुणं स्तोकं कार्यापतितमगर्वितमतुच्छम् । पूर्व मतिसंकलितं भणन्ति यद् धर्मसंयुक्तम् ॥" -छाया ॥ ४ पुव्वं -शां. ॥
॥१३॥
Jain Education
anal
For Private & Personal Use Only
w
ww.jainelibrary.org