________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम ॥१३०॥
प्रथमः प्रकाशः श्लोकः ३६ ॥१३०॥
ओवायं विसमं थाणुं विज्जलं परिवज्जए । संकमेण न गच्छेज्जा विज्जमाणे परकमे ॥२॥"
[दशवै० ५।१॥ ३-४] गतिश्च मार्गे भवति, तस्य विशेषणं 'लोकातिवाहिते', लोकेरतिवाहिते अत्यन्तक्षुण्णे, चुम्बिते स्पृष्टे आदित्यकिरणैः । प्रथमविशेषणेन परैर्विराधिते मार्गे गच्छतो यतेः षड्जीवनिकायविराधना न भवति, उन्मार्गेण न गन्तव्यमिति चाह । तथाविधेऽपि मार्गे रात्रौ गच्छतः सम्पातिमसत्चविराधना भवेदिति तत्परिहारार्थ द्वितीयविशेषणम् । एवंविधोपयोगवतश्च गच्छतो मुनेः कथंचित् प्राणिवधेऽपि प्राणिवधपापं न भवति । यदाह
" उच्चालियम्मि पाए इरियासमियस्स संकमट्ठाए ।
वावज्जेज कुलिंगी मरिज तं जोगमासज्ज ॥१॥ विराधनासंभवात् । अपवादमाह-विद्यमाने पराक्रमे अन्यमार्ग इत्यर्थः । असति तु तस्मिन् प्रयोजनमाश्रित्य यतनया गच्छेदिति सूत्रार्थ: ।" इति दशकालिकसूत्रस्य हरिभद्रसूरिविरचितायां वृत्तौ ।।
१ तुलना-तत्त्वार्थराज०७।१३। प्रवचनसा. वृ० पृ० १५६। " उच्चालिते उत्पाटिते पादे सति ईर्यासमितस्य साधो: संक्रमार्थमृत्पाटिते पादे इत्यत्र सम्बन्धः । व्यापद्येत संघट्टन-परितापनः, कः ? कुलिङ्गी...द्वोन्द्रियादिः, स परिताप्येत उत्पाटिते पादे सति, म्रियते चासौ कुलिङ्गी तं व्यापादनयोगमासाद्य प्राप्य । न च तस्य तन्निमित्तो बंध: सूक्ष्मोऽपि देशित: समये सिद्धान्ते । किं कारणम् ? यतोऽनवद्योऽसौ साधुस्तेन व्यापादनप्रयोगेण व्यापादनव्यापारेण, कथम् ? सर्वभावेन सर्वात्मना मनोवाकायकर्मभिरनवद्योऽसौ यस्मात् तस्मान्न सूक्ष्मोऽपि बन्धस्तस्येति ।" इति ओघनियुक्तेोणाचार्यविरचितायां वृत्तौ ॥ २ तज्जोग -शां. खं.॥
Jain Education in
For Private & Personal Use Only
w
ww.jainelibrary.org