SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ॥१२९ ।। Jain Education Inte त्रिसंख्या योगात्रियोगा मनो- वाकू - कायव्यापाराः तेषां निग्रहो निरोधः प्रवचनविधिना मार्गव्यवस्थापनमुन्मार्गनिवारणं च । निग्रहादिति हेतौ पञ्चमी, तेन मनोगुप्तिर्वचनगुप्तिः कायगुप्तिरिति तिस्रो गुप्ते ||३५|| ईर्यालक्षणमाह लोकातिवाहिते मार्गे चुम्बिते भास्वदंशुभिः । जन्तुरक्षार्थ मालोक्य गतिरीर्या मता सताम् ॥३६॥ स-स्थावरजन्तुजाता भयदानदीक्षितस्य मुनेरावश्यके प्रयोजने गच्छतो जन्तुरक्षानिमित्तं स्वशरीररक्षानिमित्तं च पादाग्रादारभ्य युगमात्रक्षेत्रं यावत् निरीक्ष्य ईरणमीर्या गतिः, तस्यां समितिरीर्यासमितिः । यदाहु:'पुरओ जुगमायाए पेहमाणो महिं चरे । वज्र्ज्जतो बीय-हरियाई पाणे य दग मट्टियं ॥१॥ 46 १ " पुरत: ' अग्रतो 'युगमात्रया ' शरीरप्रमाणया शकटोद्धिसंस्थितया, दृष्ट्येति वाक्यशेषः, प्रेक्षमाणः ' प्रकर्षेण पश्यन् 'मह' भुवं ' चरेत्' यायात् ।......' वर्जयन् ' परिहरन् ' बीज हरितानि ' इत्यनेनानेकभेदस्य बनस्पतेः परिहारमाह । तथा ' प्राणिनो' द्वीन्द्रियादीन् तथा 'उदकम्' अप्कायं ' मृत्तिकां च पृथिवीकायम् चशब्दात् तेजोवायु परिग्रहः ।...उक्तः संयमविराधनापरिहारः, अधुना त्वात्म-संयमविराधनापरिहारमाह - ओवायमिति सूत्रम् । व्याख्या- 'अवपातं ' गर्तादिरूपं विषमं ' निम्नोन्नतं ' स्थाणुम् ' ऊर्ध्वकाष्ठं ' विजलं' विगतजलं कर्दमं 'परिवर्जयेत्' पतत् सर्व परिहरेत् । तथा 'संक्रमेण' जल-गर्तापरिहाराय पाषाण-काष्ठरचितेन न गच्छेत् आत्म-संयम 33 For Private & Personal Use Only 5 10 ॥१२९ ॥ ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy