________________
स्वोपज्ञ
वृत्ति
विभूषितं অহামু
॥१२८॥
प्रथमः प्रकाश श्लोक: ३५ ॥१२८॥
मूलगुणरूपं चारित्रममिधायोत्तरगुणरूपं तदाह__ अथवा पञ्चसमिति-गुप्तित्रयपवित्रितम् ।
चरित्रं सम्यक्चारित्रमित्याहुर्मुनिपुङ्गवाः ॥३४॥ समितिरिति पश्चानां चेष्टानां तान्त्रिकी संज्ञा । अथवा सं सम्यक् प्रशस्ता अर्हत्प्रवचनानुसारेण इतिः चेष्टा समितिः, पश्चानां समितीनां समाहारः पञ्चसमिति । गुप्तिरात्मसंरक्षणं मुमुक्षोर्योगनिग्रह इत्यर्थः । गुप्तीनां त्रयं गुप्तित्रयम् । पञ्चसमिति च गुप्तित्रयं च. ताभ्यां पवित्रितं यच्चरित्रं यतीनां चेष्टा सा सम्यकचारित्रमुच्यते । सम्यकूप्रवृत्तिलक्षणा समितिः, प्रवृत्ति-निवृत्तिलक्षणा गुप्तिरित्यनयोविशेषः ॥३४॥
अथ समितीगुप्तीश्च नामत आह
ईर्या-भाषै-षणा-ऽऽदान-निक्षेपोत्सर्गसंज्ञकाः ।
पञ्चाहुः समितीस्तिस्रो गुप्तीस्त्रियोगनिग्रहात् ॥३५॥ ईर्यासमितिर्भापासमितिरेषणासमितिरादान-निक्षेपसमितिरुत्सर्गसमितिरित्येताः पञ्च समितीब्रुवते तीर्थकराः।
१ तुलना-तत्त्वार्थ सि० ९। ४-५ । धर्मसं० वृ०३।४७ । तत्त्वार्थराज०९। ४-५। प्रवचनसा वृ० १५६ ।। २ 'रात्मनः संरक्षणं-मु.॥ ३ संज्ञिकाः -मु.॥
Jain Education Intem
For Private & Personal Use Only
indiainelibrary.org