SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ।.१२७ । इति पञ्चमी भावना । एवं नवविधब्रह्मचर्यगुप्तिसंग्रहेण ब्रह्मचर्यव्रतस्य पञ्च भावनाः ॥ ३० ॥ ३१ ॥ पश्चमव्रतस्य भावना आहस्पर्शे रसे च गन्धे च रूपे शब्दे च हारिणि । पञ्चस्वितीन्द्रियार्थेषु गाढं गाद्धर्थस्य वर्जनम् ॥३२॥ एतेष्वेवामनोज्ञेषु सर्वथा द्वेषवर्जनम् । आकिञ्चन्यव्रतस्यैवं भावनाः पञ्च कीर्तिताः ॥३३॥ -युग्मम् । स्पर्शादिषु मनोहारिषु विषयेषु यद् गाढं गाद्धर्भस्याभिष्वङ्गस्य वर्जनम् । स्पर्शादिष्वेवामनोज्ञेष्विन्द्रियप्रतिकूलेषु यो द्वेषोऽप्रीतिलक्षणस्तस्य वर्जनम् । गार्यवान् हि मनोज्ञे विषयेऽभिष्वङ्गवानमनोज्ञान विषयान् विद्वेष्टि, मध्यस्थस्य तु मूर्छारहितस्य न क्वचित् प्रीतिरप्रीतिर्वा, रागाना(न)न्तरीयकतया च द्वेषस्योपादानम् । किञ्चन बाह्या-ऽभ्यन्तरपरिग्रहरूपं नास्यास्तीत्यकिञ्चनः, तद्भाव आकिश्चन्यमपरिग्रहता । आकिश्चन्यं च तद्वतं च, तस्यैताः पञ्च भावनाः ॥३२॥ ॥३३॥ ॥१२७|| १ गार्द्धस्या-खं० ॥२ रागानन्तरीय-धर्मसं० ० । 'रागनान्तरीय' इत्यपि पाठोऽत्र भवेत् ॥ ३ किंचनं-शां. खं. ॥ Jain Education Intel For Private & Personal use only www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy