SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ स्वोपनवृत्तिविभूषितं योगशास्त्रम् ॥१२६।। प्रथमः प्रकाश श्लोकः ३१ ॥१२६॥ प्राक् प्रव्रज्याब्रह्मचर्यात् पूर्व गृहस्थावस्थायां यद्रतं स्त्रीमिः सह निधुवनं तस्य स्मृतिस्तस्या वर्जनम्, प्राग्रतस्मरणेन्धनाद्धि कामाग्निः सन्धुक्ष्यते । इति तृतीया भावना । स्त्रीणामविवेकिजनापेक्षया यानि रम्याणि स्पृहणीयान्यङ्गानि मुख-नयन-स्तन-जघनादीनि, तेषामीक्षणमपूर्व विस्मयरसनिर्भरतया विस्फारिताक्षस्य विलोकनम् । ईक्षणमात्रं तु राग-द्वेषरहितस्यादुष्टमेव । यदाह___ "अशक्यं रूपमद्रष्टुं चक्षुर्गोचरमागतम् । रागद्वेषौ तु यौ तत्र तौ बुधः परिवर्जयेत् ॥" [ ] इत्यादि । तथा स्वस्यात्मनोऽङ्गं शरीरं तस्य संस्कारः स्नान-विलेपन-धूपन-नख-दन्त-केशसम्मार्जनादिः, स्त्रीरम्याङ्गेक्षणं च स्वाङ्गसंस्कारश्च, तयोः परिवर्जनात् । स्त्रीरम्याङ्गेक्षणतरलितविलोचनो हि दीपशिखायां शलभ इव विनाशमुपयाति । अशुचिशरीरसंस्कारमूढो हि तत्तदुत्कलिकामयैर्विकल्पैर्वृथात्मानमायासयतीति चतुर्थी भावना। प्रणीतो वृष्यः स्निग्धमधुरादिरसः, अत्यशनमप्रणीतस्यापि रूक्षभेक्षस्याऽऽकण्ठमुदरपूरणम् , तयोस्त्यागः। निरन्तरवृष्यस्निग्धरसप्रीणितो हि प्रधानधातुपरिपोषेण वेदोदयादब्रह्माऽपि सेवेत । अत्यशनस्य तु न केवलं ब्रह्मक्षतिकारित्वाद् वर्जनं शरीरपीडाकारिवादपि । यदाह" अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भागे। वाउपवियारणट्ठा छब्भायं ऊणगं कुज्जा ॥" [पिंडनि०६५०] १ सन्धुक्षते-तत्त्वार्थ० सि० ७॥ ३॥ २ तुलना-आचा०२। १५ । ३ वृष्यमधुरस्निग्धरसप्रणीतो-मु.॥ ४ स्य न -शां. ॥५"अर्धमशनस्य सव्यञ्जनस्य कुर्याद् द्रवस्य द्वौ भागौ । वायुप्रविचारणार्थ षष्ठं भागम् ऊनकं कुर्यात् ।।"-छाया । Jain Education Inter For Private & Personal use only W w.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy