________________
॥१२५॥
चतुर्थव्रतभावना आह
स्त्री-षण्ढ-पशुमद्वेश्मा-ऽसन-कुड्यान्तरोज्झनात् । सरागस्त्रीकथात्यागात् प्राग्रतस्मृतिवर्जनात् ॥३०॥ स्त्रीरम्याङ्गेक्षण-स्वाङ्गसंस्कारपरिवर्जनात् ।।
प्रणीता-ऽत्यशनत्यागाद् ब्रह्मचर्यं तु भावयेत् ॥३१॥ -युग्मम्। स्त्रियो देव-मानुषभेदाद् द्विविधाः, एताश्च सचित्ताः। अचित्तास्तु पुस्त-लेप्य-चित्रकर्मादिनिर्मिताः । षण्डास्तुतीयवेदोदयवर्तिनो महामोहकर्माणः स्त्री-पुंससेवनाभिरताः। पशवस्तिर्यगयोनिजाः । तत्र गो-महिषी-वडवा-वालेयीअजा-ऽविकादयः सम्भाव्यमानमैथुनाः । एभ्यः कृतद्वन्द्वेभ्यो मतुः, स्त्री-पण्ढ-पशुमती च ते वेश्मा-ऽऽसने च, वेश्म वसतिः, आसनं संस्तारकोदि, कुड्यान्तरं यत्रान्तरस्थेऽपि कुड्यादौ दम्पत्योर्मोहनादिशब्दः श्रूयते, ब्रह्मचर्यभङ्गभयादेषामुज्झनं त्यागः । इति प्रथमा भावना। सरागस्य मोहोदयवतो या स्त्रीभिः कथा स्त्रीणां वा कथा, सरागाश्च ताः स्त्रियश्च, ताभिस्तासां वा कथा, तस्यास्त्यागः । रागानुबन्धिनी हि देश-जाति-कुल-नेपथ्य-भाषा-गति-विभ्रमे-गित-हास्यलीला-कटाक्ष-प्रणय-कलह-शृङ्गाररसानुविद्धा कथा वात्येव चित्तोदधेरवश्यं विक्षोभमादधातीति द्वितीया भावना ।
१ चतुर्थव्रतभावनानां तुलना तत्त्वार्थ सि०७।३॥ २ वालेयी रासभी॥
॥१२५॥
Jain Education Intem
For Private & Personal use only
lainelibrary.org