SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् प्रथमः प्रकाश: श्लोकः २९ ॥१२॥ ॥१२॥ शय्यातरो वसतिस्वामी, तदवग्रहो वसतिरेव । साधर्मिकाः साधवः, तेषामवग्रहः शय्यातरप्रदत्तं गृहादि। एतानवग्रहान् ज्ञात्वा यथायथमवग्रहं याचेत । अस्वामियाचने हि परस्परविरोधेन अकाण्डधाटनादय ऐहिका दोषाः, परलोकेऽपि अदत्तपरिभोगजनितं पापं कर्म । इति प्रथमा भावना। सकृद्दत्तेऽप्यवग्रहे स्वामिना अभीक्ष्णं भूयो भूयोऽवग्रहयाचनं कार्यम् , पूर्वलब्धेऽवग्रहे ग्लानाद्यवस्थामूत्रपुरीपोत्सर्ग-पात्र-कर-चरणप्रक्षालनस्थानानि दातृचित्तपीडापरिहारार्थ याचनीयानि इति द्वितीया भावना। एतावन्मात्रमेव एतावत्परिमाणमेवैतत् क्षेत्रादि ममोपयोगि नाधिकमिति अवग्रहस्य धारणं व्यवस्थापनम् । एवमवग्रहधारणे हि तदभ्यन्तरवर्तिनीमूर्ध्वस्थानादिक्रियामासेवमानो न दातुरुपरोधकारी भवति । याच्काल एवावग्रहानवधारणे विपरिणतिरपि दातुश्चेतसि स्यादात्मनोऽपि चादत्तपरिभोगजनितकर्मवन्धः स्यादिति तृतीया भावना । धर्म चरन्तीति धार्मिकाः, समानास्तुल्याः प्रतिपन्नैकशासनाः साधवः, तेभ्यः पूर्वपरिगृहीतक्षेत्रेभ्योऽवग्रहो याच्यः, तदनुज्ञानाद्धि तत्रासितव्यम् , अन्यथा स्तेयं स्यादिति चतुर्थी भावना । अनुज्ञापिते अनुज्ञया स्वीकृते ये पाना-ऽन्ने तयोरशनम् , सूत्रोक्तेन हि विधिना प्रासुकमेषणीयं कल्पनीयं च पाना-ऽन्नं लब्धमानीयालोचनापूर्व गुरवे निवेद्यानुज्ञातो गुरुणा मण्डल्यामेकको वाऽश्नीयात् । उपलक्षणमेतत् यत् किश्चिदौधिकौपग्रहिकभेदमुपकरणं धर्मसाधनं तत् सर्व गुरुणाऽनुज्ञातं परिभोक्तव्यम् । एवं विदधानो नातिक्रामत्यस्तेयव्रतमिति पञ्चमी भावना ॥२८-२९।। १ पापकर्म-मु. धर्मसं० वृ०॥ २'वस्थासु मूत्र'-इति तत्वार्थसूत्रस्य [७।३] सिद्धसेनगणिविरचितायां वृत्तौ धर्मसंग्रहवृत्तौ [३। ४५] च पाठः ॥ ३ पूर्वगृहीत.-खं. धर्मसं० वृ०। Jain Education Inten For Private & Personal Use Only Jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy