________________
तया मिथ्या व्यादिति हास्यादिप्रत्याख्यानानि चतस्रो भावनाः। आलोच्य भाषणं सम्यगज्ञानपूर्वकं पर्यालोच्य 'मृषा मा भूत' इति मोहतिरस्कारद्वारेण भाषणं पञ्चमी भावना । मोहस्य च मृषावादहेतुत्वं प्रतीतमेव । यदाह
" रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् ।" [ ] इति ॥२७॥ तृतीयव्रतस्य भावना आह
आलोच्यावग्रहयाच्या-भीक्ष्णावग्रहयाचनम् । एतावन्मात्रमेवैतदित्यवग्रहधारणम् ॥२८॥ समानधार्मिकेभ्यश्च तथावग्रहयाचनम् ।
अनुज्ञापितपाना-उन्नाशनमस्तेयभावनाः ॥२९॥ -युग्मम् । आलोच्य मनसा विचिन्त्यावग्रहं याचेत । देवेन्द्र-राज-गृहपति-शय्यातर-साधर्मिकभेदाद्धि पञ्चावग्रहा। अत्र च पूर्वः पूर्वो बाध्य उत्तर उत्तरो बाधकः । तत्र देवेन्द्रावग्रहो यथा सौधर्माधिपतेर्दक्षिणलोकार्धम् , ईशानाधिपतेरुत्तरलोकार्धम । राजा चक्रवर्ती. तस्यावग्रहो भारतादिवर्षम् । गृहपतिर्मण्डलादिपतिः, तस्यावग्रहस्तन्मण्डलादि ।
१ तृतीयव्रतभावनानां तुलना-तस्वार्थ सि० ७॥३॥ २ 'ण्डलाधिपति-मु.।।
॥१२३॥
Jain Education in
For Private & Personal Use Only
M
ww.jainelibrary.org