________________
स्वोपज्ञ
वृत्तिविभूषित योगशास्त्रम् ॥१२२।।
प्रथमः प्रकाशः श्लोक: २७ ॥१२२॥
आभिरेषणादानेर्यासमितिभिः । दृष्टयोरन्न-पानयोग्रहणेनोपलक्षणत्वात् तद्ग्रासेनाहिंसां भावयेदिति सम्बन्धः । इह च गुप्ति-समितीनां महावतभावनात्वेन गतार्थानामपि 'अथवा पञ्चसमिती'त्यादिग्रन्थेन पुनरुत्कीर्तनं गुप्ति-समितीनामुत्तरगुणत्वज्ञापनार्थम् । यदाह
" पिंडस्स जा विसोही समिईओ भावणा तवो दुविहो ।
पडिमा अभिग्गहो वि अ उत्तरगुण मो विआणाहि ॥" [निशीथभा० ६५३४ ] इह च मनोगुप्तेर्भावनात्वं हिंसायां मनोव्यापारस्य प्राधान्यात् । श्रूयते हि प्रसन्नचन्द्रराजर्मिनोगुप्त्याऽभाविताहिंसावतो हिंसामकुर्वन्नपि सप्तमनरकपृथ्वीयोग्यं कर्म निर्ममे । एषणादानेर्यासमितयस्तु अहिंसायां नितरामुपकारिण्य इति युक्तं भावनात्वम् । दृष्टान्न-पानग्रहणं च संसक्तान-पानपरिहारेणाहिसाव्रतोपकारायेति पश्चमी भावना ॥२६॥
द्वितीयव्रतस्य भावना आह
हास्य-लोभ-भय-क्रोधप्रत्याख्यानैर्निरन्तरम् ।
आलोच्य भाषणेनापि भावयेत् सूनृतव्रतम् ॥२७॥ हसन् हि मिथ्या ब्रूयात् , लोभपरवशश्चार्थाकाङ्क्षया, भयातः प्राणादिरक्षणेच्छया, क्रुद्धः क्रोधतरलितमनस्क१ यो० १॥ ३४॥ २ चिय उत्तरगुणमो विहाणाहि-मु.॥
Jain Education Intel
For Private & Personal Use Only
O
w.jainelibrary.org