SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ॥१२॥ यथा च धर्मोपकरणवतामपि मूर्छारहितानां मुनीनां न परिग्रहग्रहित्वदोषस्तथा वतिनीनामपि गुरूपदिष्टधर्मोपकरणधारिणीनां रत्नत्रयवतीनाम् , तेन तासां धर्मोपकरणपरिग्रहमात्रेण मोक्षापवादः प्रलापमात्रम् ॥२४॥ 'पञ्चभिः पञ्चभिर्युक्ता भावनाभिविमुक्तये' इत्युक्तं तत् प्रस्तौति भावनाभिर्भावितानि पञ्चभिः पञ्चभिः क्रमात् । __ महाव्रतानि नो कस्य साधयन्त्यव्ययं पदम् ॥२५॥ भाव्यन्ते वास्यन्ते गुणविशेषमारोप्यन्ते महाव्रतानि यकाभिस्ता भावनाः ॥२५॥ प्रथमव्रतस्य भावना आह मनोगुप्त्ये(प्त्यै)षणादानेर्याभिः समितिभिः सदा । दृष्टान्न-पानग्रहणेनाहिंसां भावयेत् सुधीः ॥२६॥ मनोगुप्तिर्वक्ष्यमाणलक्षणा, तयेत्येका भावना । एषणा विशुद्धपिण्डग्रहणलक्षणा, तस्यां या समितिः। 'आदान'ग्रहणेन निक्षेप उपलक्ष्यते, तेन पीठादेओहणे स्थापने च या समितिः । ईरणमीर्या गमनम् , तत्र या समितिः। १ परिग्रहित्वदोष-धर्मसं० वृ० ३।४४॥ २ यो० २॥ १९॥ ३ पञ्चमहाव्रतभाषनास्वरूपमक्षरशस्तुल्यप्रायं धर्मसं० वृ०३। ४५। तुलना-तत्त्वार्थ सि०७॥३॥ ४ अथ प्रथम-मु.॥ ५ पीठादिन-खं.॥ ॥१२॥ Jain Education Inter For Private & Personal Use Only jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy