________________
पञ्चममाह
स्वोपज्ञवृत्तिविभूषितं गोगशास्त्रम्
प्रथमः प्रकाशः श्लोकः २४ ॥१२०॥
॥१२०॥
सर्वभावेषु मूर्छायास्त्यागः स्यादपरिग्रहः ।
यदसत्स्वपि जायेत मूर्च्छया चित्तविप्लवः ॥२४॥ सर्वभावेषु द्रव्य-क्षेत्र काल-भावरूपेषु यो मूर्छाया गर्द्धस्य त्यागो न तु द्रव्यादित्यागमात्रं सोऽपरिग्रहव्रतम् । ननु परिग्रहत्यागोऽपरिग्रहव्रतं स्यात्, किं मूर्छात्यामलक्षणेन तल्लक्षणेन ? अत आह-यदसत्स्वपीति । यस्मादसत्स्वप्यविद्यमानेष्वपि द्रव्य-क्षेत्र-काल-भावेषु मूर्च्छया चित्तविप्लवः स्यात् । चित्तविप्लवः प्रशमसौख्यविपर्यासः । असत्यपि धने धनगर्द्धवतो राजगृहनगरद्रमकस्येव चित्तसंक्लेशो दुर्गतिपातनिबन्धनं भवति । सत्यपि वा द्रव्य-क्षेत्रकाल-भावलक्षणे सामग्रीविशेष तृष्णाकृष्णाहिनिरुपद्रवमनसां प्रशमसुखप्राप्त्या चित्तविप्लवाभावः। अत एव धर्मोपकरणधारिणां यतीनां शरीरे उपकरणे च निर्ममत्वानामपरिग्रहत्वम् । यदाह
" यद्वत्तुरगः सत्स्वप्याभरणविभूषणेष्वनभिषक्तः । तद्वदुपग्रहवानपि न सङ्गमुपयाति निग्रन्थः॥" [प्रशम० १४१] १ पञ्चममेवाह-खं. ॥ २ त्रिषष्टि० १।३। ६२३ । तुलना-तस्वार्थ० ७ ॥ १२ ॥ ३ गाद्धर्थस्य-मु.। गार्द्धस्य -खं.॥ ४ तल्लक्षणेन-शां. खं. प्रत्यो स्ति ॥ ५ तुलना-धर्मसं० वृ०३।४४॥ ६ न. -खं.॥ ७ "प्रीत्या" धर्मसं० वृ०। ८ सक्तः-शां. खं.॥
Jain Education Inter
For Private & Personal Use Only
jainelibrary.org