SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ॥११७॥ Jain Education Inter अहिंसादयश्च पञ्चापि प्रत्येकं पञ्च विधभावनाभ्यर्हिताः सन्तः स्वकार्यजननं प्रति अप्रतिबद्धसामर्थ्य भवन्तीति पञ्चभिरित्याद्युक्तम् ॥१९॥ प्रथमं मूलगुणमाह ૧ न यत् प्रमादयोगेन जीवितव्यपरोपणम् । सानां स्थावराणां च तदहिंसावतं मतम् ||२०|| प्रमादोऽज्ञान-संशय-विपर्यय-राग-द्वेष-स्मृतिभ्रंश-योगदुष्प्रणिधान - धर्मानादरभेदादष्टविधः । तद्योगात् त्रसानां स्थावराणां च जीवानां प्राणव्यपरोपणं हिंसा । तन्निषेधादहिंसा प्रथमं व्रतम् ||२०| द्वितीयमाह - प्रियं पथ्यं वचस्तथ्यं सूनृतत्रतमुच्यते । तत् तथ्यमपि नो तथ्यमप्रियं चाऽहितं च यत् ॥२१॥ तथ्यं वचोऽमृषारूपमुच्यमानं सूनृतव्रतमुच्यते । किं विशिष्टं तथ्यम् ? प्रियं पथ्यं च तत्र प्रियं यत् श्रुतमात्रं प्रीणयति, पथ्यं यदायतौ हितम् । ननु तथ्यमेवैकं विशेषणमस्तु सत्यव्रताधिकारात्, प्रिय-पथ्ययोस्तु कोऽधिकारः ? १ त्रिषष्टि० १ । ३ । ६१९ ।। २ त्रिषष्टि० १ । ३ । ६२० ॥ ३० For Private & Personal Use Only 10 ॥११७॥ jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy