________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ॥११६॥
प्रथमः प्रकाशः श्लोक: १९
श्लाघ्यं हि चरण-ज्ञानवियुक्तमपि दर्शनम् । न पुनर्ज्ञान-चारित्रे मिथ्यात्वविषदूषिते ॥१३॥ ज्ञान-चारित्रहीनोऽपि श्रूयते श्रेणिकः किल । सम्यग्दर्शनमाहात्म्यात् तीर्थकृचं प्रपत्स्यते ॥१४॥ अधृतचरण-बोधाः प्राणिनो यत्प्रभावादसमसुखनिधानं मोक्षमासादयन्ति । भवजलनिधिपोतं दुःखकान्तारदावं यत तदिह सम्यग्दर्शनं रत्नमेकम् ॥ १५ ॥॥१७॥ तृतीयं रत्नमाह
सर्वसावद्ययोगानां त्यागश्चारित्रमिष्यते ।
कीर्त्तितं तदहिंसादिव्रतभेदेन पञ्चधा ॥१८॥ सर्वे न तु कतिपये ये सावद्ययोगाः सपापव्यापारास्तेषां त्यागो ज्ञान-श्रद्धानपूर्वकं परिहारः स सम्यक्चारित्रम्, ज्ञान-दर्शनविनाकृतस्य चारित्रस्य सम्यकचारित्रत्वानुपपत्तेः सर्वग्रहणं देशचारित्रव्यवच्छेदार्थम । इदं च चारित्रं मूलोत्तरगुणभेदेन द्विविधम् । कीर्तितमित्यादिना मूलगुणरूपं चारित्रमाह। पश्चधेति व्रतभेदेन, न तु स्वरूपतः ॥१८॥
मूलगुणानेव कीर्तयति
अहिंसा-सूनृता-स्तेय-ब्रह्मचर्या-ऽपरिग्रहाः ।
पञ्चभिः पञ्चभिर्युक्ता भावनाभिर्विमुक्तये ॥१९॥ . १ त्रिषष्टि०१।३।६१७॥ २ त्रिषष्टि०१।३।६१८ ॥
Jain Education Interna
For Private & Personal use only
Mainelibrary.org