SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ।।११५ ।। Jain Education Inten १ अनाद्यनन्तसंसारावर्त्तवर्तिषु देहिषु । ज्ञान - दृष्ट्या वृति- वेदनीया -ऽन्तरायकर्म्मणाम् ॥१॥ सागरोपमकोटीनां कोटयस्त्रिंशत् परा स्थितिः । विंशतिर्गोत्र नाम्नोश्च मोहनीयस्य सप्ततिः ||२|| ततो गिरिसरिद्यावघोलनान्यायतः स्वयम् । एकाब्धिकोटिकोट्यूना प्रत्येकं क्षीयते स्थितिः ||३|| शेषाधिकोटिकोट्यन्तः स्थितौ सकलजन्मिनः । यथाप्रवृत्तिकरणाद् ग्रन्थिदेशं समियूरति || ४ || रागद्वेषपरीणामो दुर्भेदो ग्रन्थिरुच्यते । दुरुच्छेदो दृढतरः काष्ठादेवि सर्वदा ||५|| ग्रन्थिदेशं तु संप्राप्ता रागादिप्रेरिताः पुनः । उत्कृष्टवन्धयोग्याः स्युचतुर्गतिजुषोऽपि ते ||६|| तेषां मध्ये तु ये भव्या भाविभद्रा शरीरिणः । आविष्कृत्य परं वीर्यमपूर्वकरणे कृते ||७|| अतिक्रामन्ति सहसा तं ग्रन्थि दुरतिक्रमम् । अतिक्रान्तमहाध्वानो घट्टभूमिमिवाध्वगाः ||८|| अथानिवृत्तिकरणादन्तरकरणे कृते । मिथ्यात्वं विरलीकुर्युर्वेदनीयं यदग्रतः ||९|| आन्तर्मुहूर्त्तिकं सम्यग्दर्शनं प्राप्नुवन्ति यत् । निसर्गहेतुकमिदं सम्यकुश्रद्धानमुच्यते ||१०|| गुरूपदेशमालम्ब्य सर्वेषामपि देहिनाम् । यत्तु सम्यकश्रद्धानं तत् स्यादधिगमजं परम् ॥११॥ यम- प्रशमजीवातुर्बीजं ज्ञान - चरित्रयोः । हेतुस्तपः श्रुतादीनां सद्दर्शनमुदीरितम् ||१२|| १ श्लोकपञ्चकं त्रिषष्टि० १ । ३ । ५८३-५८७ ॥ २ वृतिवेधाभिधा - शां. क. छ. । " "वृतिवेद्यान्तरायाभिधकर्मणाम् " - त्रिषष्टि० १ । ३ । ५८३ || ३ यन्तः प्रत्येकं खं ॥ ४ श्लोकपञ्चकं त्रिषष्टि० १ । ३ । ५९१-५९५ ।। For Private & Personal Use Only 10 ||११५ || w.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy