________________
प्रथमः
स्वोपज्ञवृत्तिविभूषितं
प्रकाशः श्लोक: १७ ॥११॥
योगशास्त्रम्
ऋजुर्विपुल इत्येवं स्यान्मनःपर्ययो द्विधा । विशुद्धथप्रतिपाताभ्यां तद्विशेषोऽवगम्यताम् ॥७१॥ अशेषद्रव्यपर्यायविषयं विश्वलोचनम् । अनन्तमेकमत्यक्षं केवलज्ञानमुच्यते ॥७२॥ एवं च पञ्चभि नैतितत्यसमुच्चयः । अपवर्गहेतुरत्नत्रयस्याद्याङ्गभाग्भवेत् ॥७३॥ भवविटपिसमूलोन्मूलने मत्तदन्ती, जडिमतिमिरनाशे पमिनीप्राणनाथः । नयनमपरमेतद् विश्वतत्त्वप्रकाशे, करणहरिणबन्धे वागुरा ज्ञानमेव ।। ७४ ॥ १६ ॥ द्वितीयं रत्नमाह
रुचिर्जिनोक्ततत्त्वेषु सम्यक्सद्धानमुच्यते ।
जायते तन्निसर्गेण गुरोरधिगमेन वा ।। १७ ।। जिनोक्त तत्वेषु जीवादिषूक्तस्वरूपेषु या रुचिस्तत् श्रद्धानम् । न हि ज्ञानमित्येव रुचि विना फलसिद्धिः । शाका-ऽन्नादिस्वरूपवेदिनाऽपि रुचिरहितेन न सौहित्यलक्षणं फलमवाप्यते । श्रुतज्ञानवतोऽप्यङ्गारमर्दकादेरभव्यस्य दूरभव्यस्य वा जिनोक्ततत्वेषु रुचिरहितस्य न विवक्षितं फलमुपश्रूयते । तस्य चोत्पादे द्वयी गतिः-निसर्गोऽधिगमश्च । निसर्गः स्वभावो गुरूपदेशादिनिरपेक्षः, स सम्यकश्रद्धानकारणम् । तथाहि
१ त्रिषष्टिः १।३। ५८२॥ २ क्षः सम्यक्-मु.॥
Jain Education Intel
Por Private & Personal Use Only
w.jainelibrary.org