________________
।।११३ ॥
Jain Education Inter
निकर्षोत्कर्षतः कालनियमः कर्म्मणां स्थितिः । अनुभावो विपाकः स्यात् प्रदेशोंऽशप्रकल्पनम् ||६२|| मिथ्यादृष्टिरविरति -प्रमादौ च क्रुदादयः । योगेन सह पञ्चते विज्ञेया बन्धहेतवः ||६३|| इतिबन्धवम् ।
भावे बन्धनां घातिकर्मक्षयोद्भवे । केवले सति मोक्षः स्याच्छेषाणां कर्म्मणां क्षये ||६४ || सुरासुर-नरेन्द्राणां यत् सुखं भुवनत्रये । स स्यादनन्तभागोऽपि न मोक्षसुखसम्पदः ||६५ || स्वस्वभावजमत्यक्षं यदस्मिन् शाश्वतं सुखम् । चतुर्वर्गाग्रणीत्वेन तेन मोक्षः प्रकीर्तितः ॥ ६६ ॥ इति मोक्षतच्चम् ।
૫
मति-श्रुता-ऽवधि-मनःपर्यायाः केवलं तथा । अमीभिः सान्वयैर्भेदैर्ज्ञानं पञ्चविधं मतम् ||६७ || अवग्रहादिभिर्भिन्नं बह्वाद्यैरितरैरपि । इन्द्रियाऽनिन्द्रियभवं मतिज्ञानमुदीरितम् ||६८ ॥ विस्तृतं बहुधा पूर्वैरङ्गोपाङ्गैः प्रकीर्णकैः । स्याच्छन्दलाञ्छितं ज्ञेयं श्रुतज्ञानमनेकधा ॥६९॥ देव-नैरयिकाणां स्यादवधिर्भवसम्भवः । षडूविकल्पस्तु शेषाणां क्षयोपशमलक्षणः ॥७०॥ १ निष्कर्षो - त्रिषष्टि० ४ । ४ । २८३ । निकृष्टं जघन्यम्, निकर्षतो जघन्यत इत्यर्थः ॥ २ अनुभागो - मु. ॥ ३ कुधादयः - त्रिषष्टि० ४ । ४ । २८४ ॥ ४ इति - नास्ति शां. खं. ॥ ५ षट् श्लोकाः त्रिषष्टि० १ । ३ । ५७६-५८१ ।।
૨૯
For Private & Personal Use Only
10
॥११३॥
jainelibrary.org