SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं प्रथमः प्रकाशः श्लोक: २२ ॥११८॥ योगशास्त्रम् ।।११।। अत आह-तत तथ्यमपीति. व्यवहारापेक्षया तथ्यमपि यदप्रियं यथा चौरं प्रति 'चौरस्त्वम' कुष्ठिन प्रति 'कुष्ठी त्वम्' इति तदप्रियत्वान्न तथ्यम् । तथ्यमप्यहितं यथा मृगयुभिः पृष्टस्यारण्ये मृगान् दृष्टवतो 'मया मृगा दृष्टाः' इति, तज्जन्तुघातहेतुत्वान्न तथ्यम् ॥ २१ ॥ तृतीयमाह अनादानमदत्तस्यास्तेयव्रतमुदीरितम् । बाह्याः प्राणा नृणामों हरता तं हता हि ते ॥२२॥ वित्तस्वामिना अदत्तस्य वित्तस्य यदनादानं तदस्तेयव्रतम् । तच्च स्वामि-जीव-तीर्थकर-गुर्वदत्तभेदेन चतुविधम्। तत्र स्वाम्यदत्तं तृणोपल-काष्ठादिकं तत्स्वामिना यददत्तम् । जीवादत्तं यत् स्वामिना दत्तमपि जीवेनादत्तम् , यथा प्रव्रज्यापरिणामविकलो माता-पितृभ्यां पुत्रादिगुरुभ्यो दीयते । तीर्थकरादत्तं यत् तीर्थकरैः प्रतिषिद्धमाधाकर्मिकादि गृह्यते । गुर्वदत्तं नाम स्वामिना दत्तमाधाकम्मिकादिदोषरहितं गुरुनननुज्ञाप्य यद् गृह्यते । नन्वहिंसापरिकरत्वं सर्वत्रतानाम , अदत्तादाने तु केव हिंसा येनाहिंसापरिकरत्वं स्यात? इत्युक्तम-बाह्याः प्राणा इत्यादि। यदि स्तेयस्य प्राणहरणं स्वरूपं मृग्यते तदा तदस्त्येव ॥२२॥ १ त्रिषष्टिः १।३। ६२१ ॥ २ तुलना-धर्मसं० वृ०३। ४२ ।। Jain Education Intel For Private & Personal Use Only Paw.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy