SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ॥१११॥ बद्धाः स्कन्धा बन्ध-शब्द-सौम्य-स्थौल्या-ऽऽकृतिस्पृशः । अन्धकारा-ऽऽतपो-द्द्योत-भेद-च्छायात्मका अपि ॥४५॥ कर्म-काय-मनो-भाषा-चेष्टितो-च्छ्वासदायिनः । सुख-दुःख-जीवितव्य-मृत्यूपग्रहकारिणः ॥४६॥ प्रत्येकमेकद्रव्याणि धमाधम्र्मी नमोऽपि च । अमूर्त्तानि निष्क्रियाणि स्थिराण्यपि च सर्वदा ॥४७॥ एकजीवपरिमाणसंख्यातीतप्रदेशको । लोकाकाशमभिव्याप्य धर्माधर्मी व्यवस्थितौ ॥४८॥ स्वयं गन्तुं प्रवृत्तेषु जीवाजीवेषु सर्वतः । सहकारी भवेद्धर्मः पानीयमिव यादसाम् ॥४९॥ जीवानां पुद्गलानां च प्रपन्नानां स्वयं स्थितिम् । अधर्मः सहकार्येष यथा च्छायाऽध्वयायिनाम् ॥५०॥ सर्वगं स्वप्रतिष्ठं स्यादाकाशमवकाशदम । लोकालोको स्थितं व्याप्य तदनन्तप्रदेशभाक् ॥५१॥ लोकाकाशप्रदेशस्था भिन्नाः कालाणवस्तु ये। भावानां परिवत्तोय मुख्यः कालः स उच्यते ॥५२॥ ज्योतिःशास्त्रे यस्य मानमुच्यते समयादिकम् । स व्यावहारिकः कालः कालवेदिभिरामतः ॥५३।। नव-जीर्णादिरूपेण यदमी भुवनोदरे । पदार्थाः परिवर्तन्ते तत् कालस्यैव चेष्टितम् ॥५४॥ १ गन्ध-शब्द-मु. त्रिषष्टिः ४।४।२६७ । " स्पर्श-रस-गन्ध-वर्णवन्तः पुद्गलाः। शब्द-बन्ध-सौम्य-स्थौल्यसंस्थान-भेद-तमश्छाया-ss-तपोद्योतवन्तश्च ।" -तत्त्वार्थ ५ । २३-२४ । प्रशम० २१६ ॥ २ "कर्मशरीरमनोभाषाविचेष्टितोच्छ्वासदुःखसुखदाः स्युः। जीवितमरणोपग्रहकराश्च संसारिणः स्कन्धाः ॥२१७।। "-प्रशम० ॥ ३ कार्येषु-ख. ग. जैमु.॥ ॥११॥ Jain Education a l For Private & Personal Use Only |www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy