________________
प्रथमः
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ॥११०॥
प्रकाशः श्लोकः १६ ॥११०॥
सोऽप्रमत्तसंयतो यः संयमी न प्रमाद्यति । उभावपि परावृत्या स्यातामान्तर्मुहर्तिकौ ॥३४॥ कर्मणां स्थितिघातादीनपूर्वान् कुरुते यतः। तस्मादपूर्वकरणः क्षपकः शमकश्च सः ॥३५॥ यद् बादरकषायाणां प्रविष्टानामिमं मिथः । परिणामा निवर्तन्ते निवृत्तिबादरोऽपि तत् ॥३६॥ परिणामा निवर्तन्ते मिथो यत्र न यत्नतः । अनिवृत्तिबादरः स्यात् क्षपकः शमकश्च सः ॥३७॥ लोभाभिधः सम्परायः सूक्ष्मः किट्टीकृतो यतः। स सूक्ष्मसम्परायः स्यात् क्षपकः शमकोऽपि च ॥३८॥ अथोपशान्तमोहः स्यान्मोहस्योपशमे सति । मोहस्य तु क्षये जाते क्षीणमोहं प्रचक्षते ॥३९॥ सयोगिकेवली घातिक्षयादुत्पन्नकेवलः । योगानां तु क्षये जाते स एवायोगिकेवली ॥४०॥ इति जीवतत्वम् । अजीवाः स्युर्धर्मा-धर्म-विहायः-काल-पुद्गलाः। जीवेन सह पश्चापि द्रव्याण्येते निवेदिताः ॥४१॥ तत्र कालं विना सर्वे प्रदेशप्रचयात्मकाः। विना जीवमचिद्रूपा अकरिश्च ते मताः ॥४२॥ कालं विनाऽस्तिकायाः स्युरमूर्ताः पुद्गलं विना । उत्पाद-विगम-ध्रौव्यात्मानः सर्वेऽपि ते पुनः ॥४३॥ पुद्गलाः स्युः स्पर्श-रस-गन्ध-वर्णस्वरूपिणः । तेऽणु-स्कन्धतया द्वेधा तत्राऽबद्धाः किलाणवः ॥४४॥ १ सूक्ष्म किट्टी-त्रिषष्टि० ४।४। २६०॥ २ इति-शां. खं. प्रत्योास्ति ॥ ३ तुलनार्थ तत्त्वार्थसूत्रस्य पञ्चमोऽध्यायो द्रष्टव्यः। प्रशम० श्लो० २०७-२१८॥
Jain Education Inte
!
For Private & Personal use only
How.jainelibrary.org